________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५श अध्यायः
३५श अध्यायः चिकित्सितस्थानम् ।
२६६३ तया समानः पवनः प्रसन्नो मार्गमाश्रितः । अग्नेः समोपचारित्वादाशु प्रकुरुते बलम् ॥ काठिन्याद् यः पुरोषन्तु कृच्छान्मुञ्चति मानवः । स घृतं लवणैर्युक्तं नरोऽन्नावग्रहं पिबेत् ॥ रौक्ष्यान्मन्दे पिबेत् सपिस्तैलं वा दीपनैर्यतम् । अतिस्नेहात् तु मन्देऽग्नौ चूर्णारिष्टासवा हिताः॥ भिन्ने गुदोपलेपात् तु मले तैलसुरासवाः। उदावर्तात् तु मन्देऽग्नौ निरूहाः स्नेहवस्तयः॥ . दोषवृद्धया च मन्देऽग्नौ शुद्धो दोषविधिं चरेत् ।
व्याधियुक्तस्य मन्दे तु सपिरेवाग्निदीपनैः॥ योऽविपक्वं पुरीषमतिसाय्यते स तु दीपनीयर्दशकयुक्तां घृतमात्रां पिबेत् । ततो यत स्यात् तदाह-तयेत्यादि। तया दीपनीयोषधयुक्तया घृतमात्रया पीतया यः समानः पवनो वह्निसमीपस्थः सन्धुक्षणः स प्रसन्नः सन् मार्ग स्वमाश्रितः सनग्नेः समीपचारिखादाशु बलमन्नेः प्रकुरुते। अपकपुरीपातिसरणप्रतीकारमुक्त्वा कठिनपुरीषमुश्चतो मन्दाग्न्याद्यग्रहणीरोगिणश्चिकित्सितमाह-काठिन्यादित्यादि। यस्त्रिदोपजग्रहणीरोगवान् मानवः पुरीषं काठि न्यात् कुच्छात् मुञ्चति स नरो लवणयुक्तमन्नावग्रह मन्नग्रहणेन ग्रहीखा घृतं पिबत् । रोक्ष्यादित्यादि। मन्दाग्निग्रहणीरोगी मन्देऽनौ रुक्षतो रुक्षगुर्बादिजाते दीपनदेशभियुतं सिद्धं सर्पिस्तलं वा पिबेत् । अतिस्नेहा तु जाते मन्देऽग्नौ चूर्णारिष्टासवास्तस्य हिताः। भिन्ने पुरीषे गुदोपलेपात् तु गुदस्रावे तलसुरासवा अवलेहा हिताः। उदावर्तात् तु जाते मन्देऽनौ निरूढ़ा आस्थापनवस्तयः स्नेहवस्तयश्चानुवासनवस्तयो हिताः। दोषद्धया कफद्धया सामस्य ग्रहणं न भवति। अपक्वपुरीपं प्रति स्नेहप्रयोगो विरुद्ध एव किञ्च दीपनीयौषधसंस्कारात् स्नेहस्य संस्कारगुणाभिधानात् अपक्कपुरीषं प्रति हितत्वं भवति, स्नेहांशस्तु वातप्रगुणता. करणस्वेन सहायतया उपादीयते। अत एवोक्तं तया समान इति । प्रसन्न इति दृष्टिरहितः । मार्गमास्थित इति स्वाभाविकमार्गमापन्नः। समीपचारित्वादिति प्रसन्नत्वादिगुणयोगे सति । अनावग्रहमिति अचमध्यप्रयुक्त इत्यर्थः। अतिस्नेहान्मन्देऽग्नौ सति चूर्णारिष्टादीनि योज्यानि । भिन्ने इति विशिष्टगु दोपलेपात् अग्नौ मन्दे तैलसुरालवा देया इति वाक्यार्थः। दोषविधि
For Private and Personal Use Only