________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६६२
चरक संहिता। (ग्रहणोदोषचिकित्सितम् परीक्ष्यामं शरीरस्य दीपनं स्नेहसंयुतम् । दीपनं बहुपित्तस्य तिक्तं मधुरसंयुतम् ॥७३॥ बहुवातस्य तु स्नेह-लवणाम्लयुतं हितम् । सन्धुक्षति यथा वहिरेषां विधिदिन्धनैः ॥ ७४॥ स्नेहमेव परं विद्याद दुर्बलानां प्रदीपनम् । नालं स्नेहसमिद्धस्य शमायान्नं सुगुकेपि ।। ७५ ॥ मन्दाग्निरविपक्वन्तु पुरीषं योऽतिसार्यते। दीपनीयोषधैर्युक्तां घृतमात्रां पिबेत् तु सः॥ गङ्गाधरः-परीक्ष्येत्यादि। शरीरस्याम ग्रहणीदोषं परीक्ष्य स्नेहसंयुतं दीपनं दीपनीयदशकं हितम्। बहुपित्तस्यामदोषिणो दीपनं तिक्तञ्च मधुरसंयुतश्च हितम्। बहुवातस्य तु ग्रहणीदोषिण आमदोषे स्नेहलवणाम्ल. युतं दीपनं हितम् । एतैः किं स्यादित्यत आह-सन्धुक्षतीत्यादि। या विधिवदिन्धनवैह्निः सन्धुक्षति तथैषामेभिर्वह्निः सन्धुक्षति ॥७४॥ ___ गङ्गाधरः-तत्राग्निदीपने प्रवरमाह-स्नेहमेवेत्यादि। दुर्बलानां त्रिदोषग्रहणीदोषिणां परं श्रेष्ठं वक्षिपदीपनं स्नेहमेव विद्यात् । कस्मात् १ नाल. मित्यादि। स्नेहसपिद्धस्य जाठराग्नेः शमाय शान्तये सुगुर्वपि अन्नं नालं न समर्थ भवति ॥७५॥
गङ्गाधरः-इति दोषजचतुर्विधग्रहणीरोगचिकित्सितमुक्त्या यश्चाग्निः पूर्वमुद्दिष्ट इति समाग्निवज त्रिधाग्निरपि ग्रहणीरोग उक्तः तत्र मन्दाग्निक्रिया माह-मन्दाग्निरित्यादि। त्रिधाग्निश्च ग्रहणीरोगी। तत्र मन्दाग्निरपि स्यात् ; अथ स्निग्धमेव क्रियते तदा बहुकफे कफवृद्धिः स्यात् ; तेनोभयापेक्ष या अन्तरा रुक्षम् अन्तरा व स्निग्धं कर्त्तव्यमित्यर्थः ॥ ७२ । ७३ ॥
चक्रपाणिः-स्नेहलवणाम्लयुतमिति दीपनमित्यर्थः। सन्धुक्षतीति विधिवदिन्धनैरिति यथा. विधानदीपितमित्यर्थः ॥ ७४॥
चक्रपाणिः-उक्तानुक्तस्नेहफलमवधारयन्नाह- स्नेहमेवेत्यादि। परमिति श्रष्ठं, स्नेह एव दोपनं श्रेष्ठं, तत्र हेसुमाह नालमित्यादिना। नालं न समर्थम् । स्नेहसमिद्धस्येति स्नेहदीप्तस्य। स्नेहशब्देनास सामान्यवाचिना सर्पिरेवोच्यते सर्पिप एवाताधिकारात् ॥ ७५ ॥
चक्रपाणि:-मन्दाग्निरित्यादौ अविपक्रमिति पुरीपविशेषण । तेनाविपक्वशब्दग्रहणात्
For Private and Personal Use Only