________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५श अध्यायः ] चिकित्सितस्थानम्। २६६१
क्रिया या चानिलादीनां निर्दिष्टा ग्रहणी प्रति। व्यत्यासात् तां समस्तां वा कुर्य्याद रोगविशेषवित् ॥ ७० ॥ स्नेहनं स्वेदनं शुद्धिं लङ्घनं दीपनञ्च यत् । चूर्णानि मधुरक्षार-मवरिष्टसुरासवाः॥ तक्रप्रयोगा विविधा दीपनानाश्च सर्पिषाम् । ग्रहणीदोषिभिः सेव्याः क्रियाञ्चावस्थिकों शृणु ॥७१ ॥ ष्ठोवनं श्लैष्मिके रुक्षं दोपनं तिक्तसंयुतम् ।
सकृद् रुदं सकृत् स्निग्धं कृशे बहुकफे हितम् ॥७२॥ त्रिदोषे ग्रहणीरोगे वैद्यो विधिवत् पञ्च कर्माणि कारयेत् । वमनविरेचनाङ्गलात् स्नेहस्वेदौ च कृत्वेति विधिवद वचनेनाभिधानात्। तथा संशुद्धाय घृतादीन् अग्निविवर्द्धनान् दद्यात्। या च क्रिया अनिलादीनां प्रत्येकग्रहणी प्रति इह निर्दिष्टा रोगविशेषविद् वैद्यस्ता समस्तां वातजपित्तजकफजग्रहणीरोगक्रियां वा व्यत्यासात् कुर्यात्। या क्रिया यस्य दोषस्य व्यात्यासरूपा विपर्ययरूपा तां बुद्धा कुर्यात् ॥ ७० ॥
गङ्गाधरः-स्नेहनमित्यादि। यत् द्रव्यं स्नेहनादिकं यानि चूर्णानि चोक्तानि मधुरादयश्च विविधास्तक्रप्रयोगाश्च दीपनानाश्च सर्पिषां ये विविधाः प्रयोगाः ते सर्वे त्रिदोषजग्रहणीदोषिभिः सेव्याः। तेषां त्रिदोषग्रहणीदोषिणामावस्थिकी क्रियां शृण। यात ऊद्ध वक्ष्यते ॥१॥
गङ्गाधरः-ष्ठीवन मित्यादि। इलैष्मिके श्लेष्माधिकत्रिदोषजे तिक्तसंयुतं रुक्षं दीपनश्च यद् द्रव्यं तस्य काथेन कवलं हितम् । ष्ठीवनं कर्म मुम्वेन श्लेष्मणः स्वल्पं स्वल्पमुद्गिरणं हितम् । कृशे बहुकफे सकदेकवारं रुक्ष सकृदेकवारश्च स्निग्धं कम्मे हितम् ॥७२॥ उक्तवातादिक्रियाव्यत्यासात्। एकैकदोष क्रियापरिवर्तने सर्वा तां कुर्यात् किंवा मिलितः कुर्यात्, मेलनश्च वातादिद्रव्यमेलनादेव भवति ॥ ७० ॥
चक्रपाणिः-स्नेहनमित्यादिना ग्रहणीदोषभेषजसङ्कलनमाह । क्रियाञ्चावस्थिकीमिति ग्रहणीदोष एव अवस्थाविशेषे कत्तेव्याः क्रियाः शृण ॥१॥
चक्रपाणः-सकृत रुभै सकृत् स्निग्धं कृश इति रुक्षमेव क्रियते तदा कृशस्य बलहानिः
For Private and Personal Use Only