________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६५५
१५ अध्यायः] चिकित्सितस्थानम् ।
नवे पिप्पलिमध्वाक्ते कलसे गुरुधूपिते। मध्वादकं जलसमं चूर्णानीमानि दापयेत् ॥ कुड़वाई विड़ङ्गानां पिप्पल्याः कुड़वं तथा। चातुर्थिकांशां त्वक्क्षीरी केशरं मरिचानि च ॥ त्वगेलापत्रकशटी-क्रमुकातिविषाघनम्। हरेवेलुकतेजोबा-पिप्पलीमूलचित्रकान् ॥ कार्षिकांस्तं स्थितं मासमत ऊर्द्ध प्रयोजयेत् । मन्दं सन्दीपयत्यग्निं करोति विषम समम् ॥ हृत्पाण्डुग्रहणीरोग-कुष्टार्शःश्वयथुज्वरान् । वातश्लेष्मामयांश्चान्यान् मध्वरिष्टो व्यपोहति ॥ ८ ॥
मध्वरिष्टः। समूलां पिप्पली क्षारौ द्वौ पञ्च लवणानि च। मातुलुङ्गाभयारास्ना-शठीमरिचनागरम् ॥
गङ्गाधरः-मदिराविशेषानासवानुक्त्वा मध्वरिष्टमाह-नव इत्यादि। पिप्पलीकल्कमधुभ्यामभ्यक्ते नवे मृन्मये कलसेऽगुरुधूपिते मधुन आदकं षोड़शशरावं जलसमं षोडशशरावजलमेकीकृत्य तत्रेमानि चूर्णानि दापयेत् । विझानां चूर्णितानां कुड़वार्द्ध पलद्वयम्। पिप्पल्याश्चूणितायाः कुड़वं चतुःपलम् । बक्षीरी वंशलोचनां चतुर्थिकांशां पलांशाम् । केशरादीनां कार्षिकान् । तत्र दत्त्वा मासं स्थापयेत् । मासाद्ध प्रयोजयेत् । लघ्वनभोजनादनु पाययेत् । अत्र क्रमुको गुवाकः। एलुकम् एलवालुकम् । तेजोबा चवी। विषममग्नि समं करोति। मध्वारिष्टः ॥५८॥ 'गङ्गाधरः-अनुपानमुक्त्वा स्वतः प्रयोगानाह-समूलामित्यादि.। पिप्पली चक्रपाणिः- मघ इत्यादौ त्वगेलादीनां कार्पिकत्वम् ॥ ५८ ॥ . चक्रपाणिः-समूलां पिप्पलोमिति पिप्पली पिप्पलीमूलम् ॥ ५५ ॥
For Private and Personal Use Only