________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
मलासवः।
२६५४
चरक-संहिता। प्रहणीदोषचिकित्सितम् द्रोणशेषे रसे पूते गुड़स्य द्विशतं भिषक् ।
चूर्णितान् कुड़वाळांशान् दद्याचात्र समाक्षिकान् ॥ प्रियङ्गमुस्तमञ्जिष्ठा-विडङ्गमधुकप्लवान् । लोध्र सावरकञ्चैव मासाद्धं तं पिबेत् ततः॥ एष मूलासवः सिद्धो दीपनो रक्तपित्तनुत् । आनाहकफहृद्रोग-पाण्डुरोगागन्सादनुत् ॥ ५६ ॥ प्रास्थिकी पिप्पलों पिष्टा गुड़ मध्यविभीतकात् । उदकप्रस्थसंयुक्तं यवपल्ले निधापयेत् ॥ तस्मात् पलं सुजातात् तु सलिलाञ्जलिसंयुतम् । पिबेत् पिण्डासवो ह्यष रोगानीकविनाशनः ॥ वस्थोऽप्येनं पिबेन्मासं नरः सिद्धरसायनम् ।। इछस्तेषामनुत्पत्तिं रोगाणां ये प्रकीर्तिताः ॥ ५७॥ ..
पिण्डासवः। .. ऋषभ इषह इति ख्यातः। जीवको जियाला इति लोके। एषां प्रत्येकं पञ्चपलान् भागान् अम्भसश्चतुर्दोणे पचेत् द्रोणेऽवशेषे रसे पूते पुराणगुडस्य द्विशतपलं दत्त्वा गोलयिता पूला प्रियङ्कादीनां चर्णान् प्रत्येकं कुड़वाद्धांशान् द्विपलमितान् समाक्षिकान् द्विपलमाक्षिकञ्च दद्यात्। सावरकं लोधं पट्टिकालोध्र श्वेतवल्कलम्। पूर्ववदेलादिकल्कलिप्ते घृतकुम्भे मासं स्थापयेत् । मासादुद्ध लघ्वन्नभोजनादनु तं पिबेत्। शेषमाशिषः। मूलासवः॥५६॥
गङ्गाधरः-प्रास्थिकीमित्यादि। पिप्पलीप्रस्थं शरावद्वयं पिष्टा मध्याकृतिविभीतकाद गुई गुड़कं प्रास्थिकमपिष्ट्वा गुड़कवचनाद्। द्वयमेतदुदकमस्थसंयुतं (मध्याकृतिविभीतकात् प्रस्थं गुडं गुड़स्य प्रास्थिकमपि त्रयमेतदुदकास्थसंयुतं) यवपल्ले सतणयवराशौ निधापयेत्। मासस्थितात् सुजातात् तस्मात् पिण्डासवात् पलं सलिलाञ्जलिसंयुतं पिबेत् । एष पिण्डासवो रोगानीकविनाशन इत्यादि। पिण्डासवः ।। ५७॥
चक्रपाणिः-प्रास्थिकीमित्यादौ पिप्पलीगुडविभीतकमजा प्रत्येक प्रस्थः ॥ ५६ ॥ ५७ ॥
For Private and Personal Use Only