________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५शं अध्यायः
चिकित्सितस्थानम्। २६४ भूनिम्बकटकाव्योष-मुस्तकेन्द्रयवान् समान् । द्वी चित्रकाद् वत्सकत्वग-भागान् षोड़श चूर्णयेत् ॥ गुड़शीताम्बुना पीतं ग्रहण दोषगुल्मनुत् । कामलावरपाण्डुत्व-मेहारुच्यतिसारनुत् ॥४८॥
न भूनिम्बाय चूर्णम् । वचामतिविषां पाठां सप्तपर्ण रसाञ्जनम् । श्योनाकोदीच्यकटङ्ग-वत्सकत्वगदुरालभाः॥ दार्बोपर्पटकं पाठां यमानीं मधुशिग्रु कम् । पटोलपत्रं सिद्धार्थान् यूथिकां जातिपल्लवान् ॥ जम्बाम्रविल्वमध्यानि निम्बशाकफलानि च।। तद्रोगशममन्विच्छन् भूनिम्बाद्यन योजयेत् ॥ ४६॥
गङ्गाधरः-भूनिम्बेत्यादि। भूनिम्बादीन् समानांशान् चित्रकाद् द्वौ भागावेकद्रव्यापेक्षया वत्सकस्य कुटजस्य खचः षोड़श भागानेकभागापेक्षया चूर्णयेत् । गुड़शीताम्बुना पीतं तच्चूगं ग्रहण्यादिनुत् । भूनिम्बाद्य चर्णम् ॥४८॥
गङ्गाधरः-वचामित्यादि। श्योनाकस्य कटुङ्गशब्देन पुनरुक्तवाद भागद्वयम्, जम्ब्वाम्रविल्वानां मध्यानि शस्यानि न तु वीजानि, निम्बस्य शाकं पत्रं फलानि च। भूनिम्बायन यथोक्तमानेन वचादीनीमानि प्रथमभागसमानि प्रत्येकं योजयेत् तद्भनिम्बादिचूर्णवचनोक्तरोगशममन्विच्छन् ग्रहणीदोषवान् नर इति ॥४९॥ भन्ये तु तण्डलाद द्विगुणमम्बु तण्डुलेन समं चिरस्थितं तत् तरडुलाम्बु वदन्ति। कृष्णाश्रयेण पूजितत्वोपदर्शितम् अस्य सिद्धयोगत्वं दृश्यते । कृष्णात्रेयः पुनर्वसुरमिन्नाविति बोध्यम् ॥ ४७ ॥
चक्रपाणिः-मूनिम्बाय गुड्युतं शीताम्बु। गुड़श्चात माधुर्यापत्तिमातो ज्ञेयः ॥४८॥
चक्रपाणिः-वचामित्यादौ श्योनाककटङ्गशब्दाभ्यां द्वावपि श्योनाको गृह्यते। तदः रोगशममन्विच्छमिति भूनिम्बाधक्तग्रहणीदोषादिरोगशान्ति कासन्, भूनिम्बाथ नेति मूनिम्बाइयक्तदव्यगणेन यथोक्तमानेन योजयेत् वचादीनि। अपरे तु भूनिम्बाचे नेति वचनेन भूनिम्बायतगुड़शीताम्बुपेयतामतिदिशतीति वदन्ति ॥ ४९ ॥
३७०
For Private and Personal Use Only