________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ग्रहणीदोषचिकित्सितम
२६४८
चरक-संहिता। [ग्रहणीदोषचिकित्सितम् चन्दनं पद्मकोशीरं पाठां मूळ कुटन्नटम् । षड्यन्याशारिवास्फोता-सप्तपर्णाटरूषकान् ॥ . पटोलोडुम्बराश्वत्थ-वटप्लक्षकपीतनान् । कटुकारोहिणीमुस्तं निम्बञ्च द्विपलांशिकम् ॥ द्रोणेऽपां साधयेत् पाद-शेष प्रस्थं घृतात् पचेत् । किराततिक्तेन्द्रयव-वीरामागधिकोत्पलैः॥ कल्कैरक्षसमैः पेयं तत् पित्तग्रहणीगदे। तिक्तकं यद् घृतञ्चोक्तं कौष्ठिके तच्च दापयेत् ॥ ४६॥
चन्दनाद्य घृतम् । नागरातिविषामुस्तं धातकी सरसाञ्जनम् । वत्सकत्वक् फलं वित्वं पाठां तिक्तकरोहिणीम् ॥ पिबेत् समांशं तच्चूणं सक्षौद्र तण्डुलाम्बुना। पैत्तिके ग्रहणीदोषे रक्तं यच्चोपवेश्यते ॥ अशीस्यथ गुदे शूलं जयेच्चैव प्रवाहिकाम् । नागरायमिदं चूर्ण कृष्णात्रयेण पूजितम्॥४७॥
नागरायचर्णम् । .. . गङ्गाधरः-तत्रादौ तिक्तकसपिराह-चन्दनमित्यादि। चन्दनादिकं प्रत्येक द्विपलांशिकम् अपां द्रोणे पक्त्वा साधयेत् पादशेषम् । तेन घृतात् प्रस्थं किराततिक्तादिभिरक्षसमैः कल्कः पचेत् । तत् पक्वं घृतं पित्तग्रहणीगदे पेयम् । एवं कोष्ठिके कुष्ठचिकित्सिते यत् तिक्तकं पञ्चतिक्तघृतादिकमुक्तं तश्च पित्तग्रहणीगदे दापयेत् । चन्दनाद्य घृतम् ॥४६॥
गङ्गाधरः-चूर्णमाह-नागरेत्यादि। नागरादिकं प्रत्येकं समांशं चूर्ण मिश्रयित्वा तण्डुलाम्बुमधुभ्यां गोलयित्वा पिवेत्। नागरायचूर्णम् ॥४७॥
चक्रपाणिः-कुटनटं कैवर्तमुस्तकम्, पख् ग्रन्था यचा, आरफोता अस्फुरमल्लिका, कपीतनो गई भाण्ड इति ख्यातः ॥ ४६
चक्रपाणिः-नागराध सक्षौद्रमिति मधुप्रक्षेपयुक्तम् । तण्डुलाग्घुनैति तण्डुलधावनाग्बुना
For Private and Personal Use Only