________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पश अध्यायः] चिकित्सितस्थानम् ।
२१४७ तक्रकंसासुतं जातं तक्रारिष्टं पिबेन्नरः। दीपनं शोफगुल्मार्श-क्रिमिमेहोदरापहम् ॥४४॥
तक्रारिष्टम्। स्वस्थानगतमुक्लिष्टमग्निनिर्वापकं भिषक् । पित्तं ज्ञात्वा विरेकेण निहरेद् वमनेन वा ॥ अविदाहिभिान्नैश्च लघुभिस्तिक्तसंयुतैः। जागलानां रस्र्यधर्मदादीनां खडैरपि ॥ दाडिमाम्लैः ससर्पिष्कर्दीपनग्राहिसंयुतैः। तस्याग्निं दीपयेच्चणः सपिभिश्चापि तिक्तकैः ॥ ४५ ॥
लवणानि पलांशानि प्रत्येकं सर्चमेकत्र चूर्णयेत्। तचूर्ण तक्रकसे षोडशशरावे प्रक्षिप्य स्थापयेत्, तत् तक्रकंसासुतं तक्रारिष्टं भवति–तत् दीपनादिगुणं नरो ग्रहणीदोषी पिबेत् । अत्र स्थापनकालानुक्तौ कालमानमाह" -स्निग्धे भाजनके भिषग विनिहितं त्रीन् वासरान् स्थापयेत्। ग्रीष्मे तोयधरात्यये च चतुरो वर्षासु पुष्पागमे। षट् शीतेऽष्टदिनान्यतः परमिदं जातं प्रयोज्यं बुधैः” इति। तक्रारिष्टम् ॥४४॥ ___ गङ्गाधरः-पित्तग्रहणीरोगचिकित्साविशेषमाह-स्वस्थानेत्यादि। स्वस्थानस्थं द्रवं ग्रहणीरोगकरं पित्तमग्निनिर्वापकं शाखा भिषक विरेचनेन निर्हरेत् । उक्लिष्टं शाला वमनेन निर्हरेत्। निह त्य चाहारार्थ यद देयं तदाह-अविदाही. स्यादि। अविदाहिभिलघुभिरन्नस्तिक्तसंयुतैः तिक्तद्रव्यकृतव्यञ्जनः जागलानां मांसरसैः मुद्रादीनां यषैः खडैरनम्लैर्दाडिमरसेनाम्लैमुद्रादीनां यूषैः ससर्पिष्कः सर्पिषि संभृष्टः प्रक्षिप्तसर्पिष्कर्दीपनग्राहिभिर्मरिचजीरकादियुक्तैराहारस्तस्य विरिक्तस्य वमितस्य चाग्निं दीपयेत् । एवं चूणैः तिक्तकैः सर्पिर्भिश्च तस्याग्नि दीपयेत् ॥४५॥
चक्रपाणिः-यमानीत्पादौ कंस इति आढकं, जातमिति अम्लरसतया जातम् ॥४४॥
चक्रपाणिः-वमनेन वेत्युर्द्ध गपित्तापेक्षया ज्ञेयम्। सपिर्भिश्चापि तिक्तकैरित्यत्र ब्याख्यार्थ बहुल वचनं किंवा कुष्टोक्तं तिक्तघृतद्वयम् अन्यच्च तिक्तसाधितं घृतमिति बहुवचनं साधु ॥ ४५ ॥
For Private and Personal Use Only