________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४६
चरक-संहिता। [ग्रहणीदोषञ्चिकित्सितम् ग्रहणीदोषिणां तक दीपनं ग्राहि लाघवात् । पथ्यं मधुरपाकित्वान्न च पित्तप्रकोपणम् ॥ कषायोषणविकाशित्वाद रौक्ष्याचापि कफे हितम् । वाते स्वाद्वम्लसान्द्रत्वात् सद्यस्कमविदाहि तत्॥ तस्मात् तक्रप्रयोगा ये जठराणां तथार्शसाम् । विहिता ग्रहणीदोषे सर्वशस्तान् प्रयोजयेत् ॥ ४३ ॥ यमान्यामलकं पथ्या मरिचं त्रिपलांशिकम् । लवणानि पलांशानि पञ्च चैकत्र चूर्णयेत् ॥
गङ्गाधरः-तत्र तक्रस्य विशेषमाह-ग्रहणीत्यादि। लाघवात् तक्रं ग्राहि । ग्रहणीदोषिणां वह्निदीपनं मधुरपाकिलात् पथ्यम् । न च पित्तप्रकोपणम् । तर्हि किं कफवर्द्धनं मधुरपाकिलादित्यत आह-कषायेत्यादि। कषायादिगुणाः कफगुणविरोधिनः, तस्मात् तक्रं कफे हितं प्राग विकारात्। विकाशी त्रिकशत्येव सन्धिबन्धं विमोक्षयन्निति। विपाके मधुररसेन पित्तं शमयति । तदि चाम्लत्वेन प्रथमं किं पित्तप्रकोपणं तकं कषायखाद वातप्रकोपणमित्यत आह-वात इत्यादि । स्वाद्वम्लसान्द्रखात् वाते हितम् । तदम्लमपि सद्यस्कं न विदाहि भवति तेन न पित्तप्रकोपि। विरुद्धगुणसमवाये भूयसाऽल्पमवजीयते। तेन रक्षकषायौ वातवर्द्धनौ स्वाद्वम्लसान्द्रा गुणा भूयांसोऽवजयन्ति न वातं वर्द्धयति कषायरौक्ष्यम् । कषायोष्णविकाशिरौक्ष्यगुणैरवजिताः स्वाद्वम्लसान्द्रा न कर्फ वर्द्धयन्ति, अम्लोष्णविकाशिगुणाः कषायस्वादुसान्द्रगुणैर्मधुरपाकेण चावजिताः पित्तं न वर्द्धयन्ति। प्रागुक्तं-रसं विपाकस्तौ वीर्य प्रभावस्तान्यपोहति। इति। तस्मात् जठराणामुदराणां तथाऽर्शसां ये तक्रमयोगा विहितास्तांस्तक्रप्रयोगान ग्रहणीदोषे सर्वशः प्रयोजयेत् इह चाह ॥४३॥
गङ्गाधरः-यमानीत्यादि। यमान्यादिकं प्रत्येकं त्रिपलांशिकम्। पञ्च
चक्रपाणिः-महणीत्यादिना तक्रगुणविधारणं मधुरपाकित्वात् न च पित्तप्रकोपणम्। अम्लत्वात पित्तप्रकोपणे प्राप्ते मधुरपाकितया पित्तं न प्रकोपयति । सद्यस्कम् अविदाहीति सयो मथितमेव तक पच्यमानावस्थायां न विदाहकृद भवति। किञ्चित्कालस्थितन्तु विदाहि भवत्येव ॥ १३॥
For Private and Personal Use Only