________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक संहिताः। प्रहणीदोषचिकित्सितम् किराततिक्तं षड़ ग्रन्था त्रायमाणा कटुत्रिकम् । चन्दनं पद्मकोशीरं दात्विक् कटुरोहिणी॥ कुटजत्वक्फलं मुस्तं यमानी देवदारु च । पटोलनिम्बपला-सौराष्ट्रतिविषात्वचः॥ मधुशियोश्च वीजानि मूळ पर्पटकं तथा । तच्चूर्ण मधुना लेह्य पेयं मदोर्जलेन वा ॥ हृत्पाण्डुग्रहणीरोग-गुल्मशूलारुचिज्वरान् । कामलां पाण्डुरोगञ्च मुखरोगश्च नाशयेत् ॥ ५० ॥
किराताद्य चणेम। ग्रहण्यां श्लेष्मदुष्टायां वमितस्य यथाविधि । कटम्ललवणक्षारैस्तिक्तैश्चाग्निं विवर्द्धयेत् ॥ पलाशं चित्रकं चव्यं मातुलुङ्ग हरीतकी। पिप्पली पिप्पलीमूलं पाठाधान्यकनागरम् ॥ कार्षिकाण्युदकप्रस्थे पक्तवा पादावशेषिते । पानार्थ तत् प्रयुञ्जीत यवागू तश्च साधयेत् ॥ ५१॥ गाधरम्-किराततिक्तमित्यादि । दाया॑स्वक् दा/लक कुटजस्य वक च. फलश्च पटोलनिम्बयोः पत्रं सौराष्ट्री मृत् फटीकारी। लक गुड़सक मधुशियो रक्तशोभाञ्जनस्य वीजानि। किराततिक्तादीनि समानि चूर्णयिखा तचूर्ण मधुना लेह्य मद्य जलेन वा पेयम् । हृदित्याद्याशीः। किराताध चूर्णम् ॥५०॥ . गाधरः-पित्तग्रहणीरोगचिकित्सितमुक्त्वा श्लैष्मिकचिकित्सितमाहग्रहण्यामित्यादि। यथाविधि वमितस्य श्लैष्मिकग्रहणीदोषवतो जनस्य कदादिरसद्रव्यरग्निं विवर्द्धयेत् । अग्निविवर्द्धनयोगमाह-पलाशमित्यादि। अत्र पलाशं शटीमूलं मातुलुङ्गस्य फलमध्यस्थकेशरम् । एषां मिलितानां
For Private and Personal Use Only