________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५श अध्यायः ! चिकित्सितस्थानम् ।
२६४३ छोग्रन्थिलेषु पेयमुष्णेन वारिणा। पथ्यासौवर्चलाजाजी-चूर्ण मरिचसंयुतम् ॥ पिप्पलीमूलमभयां वचा कटुकरोहिणीम् । पाठां वत्सकवीजानि चित्रकं विश्वभेषजम् ॥ पिबेनिःक्वाथ्य चूर्णानि कृत्वा चोष्णेन वारिणा। पित्तश्लेष्माभिभूतायां ग्रहण्यां शूलनुद्धितम् ॥ सामे सातिविषं व्योषं लवणक्षारहिङ्गमत् । निःक्वाथ्य पाययेच्चूर्ण कृत्वा वा कोष्णवारिणा ॥ ३७॥ पिप्पली नागरं पाठां शारिवां वृहतीद्वयम् । चित्रकं कौटजं वीजं लवणान्यथ पञ्च च ॥ तच्चूर्ण सयवक्षारं दध्युष्णाम्बुसुरादिभिः। पिबेदग्निविवृद्धार्थ कोष्ठवातापहं नरः॥ ३८॥
पिप्पल्या चणम्। मरिचौकुञ्चिकाम्बष्ठा-वृक्षाम्लकुड़वान् पृथक् ।
दशाम्लवेतसपलानीमांश्वापि पलांशिकान् ॥ कला उष्णेन वारिणा पिबेत् छयादिषु पथ्यादिमरिचान्तं चूर्णमुष्णेन वारिणा पिबेत्। पिप्पलीमूलमित्यादि। पिप्पलीमूलादि-विश्वभेषजान्तं निकाथ्य पिबेत् अथवा चूर्ण कृखा उष्णवारिणा पिबेदिति । इति पिप्पल्यादि. दशकम् । ग्रहण्यां नाड्यां पित्तश्लेष्माभिभूतायां शूलनुत् शूलप्रशमनं हितम् इति। साम इत्यादि। सामे पित्तश्लेष्मदोषे अतिविषासहितं व्योषं निकाथ्य लवणक्षारहिङ्युक्तं पिबेदथवा चूर्ण कला कोष्णवारिणा पिबेत् ॥३७॥
गङ्गाधरः-पिप्पलीमित्यादि। पिप्पल्यादीनि यवक्षारान्तानि चर्ण कला दध्याद्यन्यतमेन नरः पिबेत् । पिप्पल्याद्य चूर्णम् ॥३८॥ ... गङ्गाधरः-मरिचेत्यादि। औकुञ्चिका कृष्णजीरकः । मरिचादीनां प्रत्येक मूलाचे वमादीनि पिवेदित्यनुवर्तते । सामे दोषे सति पिप्पलीमूलादिषु अतिविषादि प्रक्षिप्य पूर्ण कत्तव्यमित्यर्थः । सुरादिभिरित्यव सुराशब्देन काञ्जिकसौवीरादिग्रहणम् ॥ ३७॥३८॥ :
For Private and Personal Use Only