________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६४२
चरक-संहिता। ग्रहणीदोषचिकित्सितम गुड़िका मातुलुङ्गस्य दाडिमस्य रसेन वा। कृता विपाचयत्यामं दीपयत्याशु चानलम् ॥३६ ॥
चित्रकाद्या गुड़िका। नागरातिविषामुस्त-क्काथः स्यादामपाचनः। मुस्तान्तकल्कः पथ्या वा नागरञ्चोष्णवारिणा ॥ देवदारुवचामुस्ता-नागरातिविषाभयाः। वारुण्यामासुतास्तोये कोष्णे वालवणाः पिबेत् ॥ बर्चस्यामे सशूले च पिबेद वा दाडिमाम्बुना। विड़ेन लवणं पिष्टं विल्वं चित्रकनागरम् ॥ सामे वा सकफे वाते कोष्ठशूलकर पिबेत् । कलिङ्गहिङ्गतिविषा-वचासौवर्चलाभयाः॥
प्रत्येक समम् एकत्र चूर्णयेत् । तचूर्ण मातुलुङ्गस्य रसेनाम्लदाडिमस्य रसेन वा मई यिखा गुड़िका कृता भक्षितामं पाचयतीति । चित्रकाद्या गुड़िका ॥३६॥
गङ्गाधरः-नागरेत्यादि। नागरादित्रयस्य काथ एकयोगः। मुस्तान्तानां तेषां नागरादीनां त्रयाणां कल्को द्वितीयः। पथ्या चूर्णितेवोष्णवारिणा पीता आमपाचनीति तृतीयः। नागरञ्च चूर्णितमुष्णवारिणा पीतमामपाचनमिति चतुर्थः । देवदार्विति । देवदादियोऽभयान्ता वारुण्यां संस्थिताः कालेनासुताः जातसन्धानाः पिवेदामपाचनीः। कोष्णे तोये वा आसुता जातसन्धानाः अलवणा ईषत्सैन्धवयुक्ताः पिबेत् । वर्चसीत्यादि। आमे सशूले च वचसि दाडिमवककाथेन ताः अभयान्ताः चूर्णिताः पिबेत् । विड़ेनेत्यादि । विल्वमाम चित्रकमूलं नागरञ्च त्रयं पिष्टं विड़ेन लवणेन लवणं कृता सामे सकफेवा वाते कोष्ठे शूलकरे पिवेत्। कलिङ्गमिन्द्रयवः । कलिङ्गाद्यभयान्तान् चर्णि तान्
किन्तु अनियते स न्यायो भवति इह तु पञ्चलवणानां प्राधान्येन दीर्घ जीवितीये निर्दिष्टत्वात् पञ्चलवणस्यैव स्वशत्योरपादनस्वात् पन्चैव लवणानि ग्राह्याणि ॥३६॥
चक्रपाणिः-मुस्तान्तकलक इति उक्तनागरादिकल्क इत्यर्थः। चूर्णानि कृत्वा पिप्पली.
For Private and Personal Use Only