________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ग्रहणीदोषचिकित्सितम
२६४४
चरक-संहिता। सौवर्चलं विड़ पाक्यं यवक्षारं ससन्धवम् । शटीपुष्करमूलानि हिङ्ग हिड्नुशिराटिका ॥ तत्सर्वमेकतः सूक्ष्मं चूर्णं कृत्वा प्रयोजयेत् । हितं वाताभिभूतायां ग्रहण्यामरुचौ तथा ॥ ३९ ॥
मरिचाय चूर्णम्। चतुर्णा प्रस्थमम्लानां त्र्यूषणस्य पलत्रयम् । लवणानाञ्च चत्वारि शर्करायाः पलाष्टकम् ॥ तच्चूर्ण शाकसूपान्न-रागादिष्ववचारयेत् । कासाजीर्णारूचिश्वास-हृत्पाण्डामयशूलनुत् ॥ १०॥
कुड़वमम्लवेतसपलानि दश। इमान् वक्ष्यमाणान् सौवर्चलादीन अपि पलांशिकान् नीखा तत्सर्वमेकतः सूक्ष्मचूर्ण कृषा प्रयोजयेत् दध्यादिभिः। वाताभिभूतायां ग्रहण्यां हितं तथाऽरुचौ च। अत्र पाक्यं पांशुजलवणम् । हिडशिराटिका हिडपत्री । हिङ्गपत्री वेणपत्री नाड़ी हिङ्गुशिराटिकेति पय्योयाः। लोके वेणुपातनामवनजविशेषः । मरिचाद्य चूर्णम् ॥३९॥
गङ्गाधरः-चतुर्णामित्यादि। चतुर्णामम्लानामम्लवेतसवृक्षाम्लकोलदाड़िमानां प्रस्थं प्रत्येकन्तु कुड़वमानं स्वरसम् अषणस्य । प्रत्येकं पलं मिलितस्य पलत्रयम् । लवणानाञ्च चतुर्णा सैन्धवसौवर्चलविड़ोभिदानां प्रत्येकमेकपलं मिलिला चखारि पलानि । शर्करायाः पलाष्टकमिति । तत्सर्वमेकीकृत्य संशोष्य चर्ण कला शाकादिष्ववचारयेत् । इत्यवचारणचूर्णम् ॥ ४०॥
चक्रपाणि:-चतुर्णा प्रस्थमम्लानामित्यत चतुरम्लं वृक्षाम्लाम्लवेतसदाडिमबदररूपमाहुः। अन्ये तु चव्यत्वगित्यादिप्रयोगवक्ष्यमाणकपित्थचुक्रिकावृक्षाम्लदाडिमानां गणमाहुः। सन्तान्तरे तु "वृक्षाम्लं मातुलुङ्गाम्लं बदरश्चाम्लवेतसम्। चतुरम्लमिदं प्रोक्तं पञ्चाम्लन्तु सदाडिमम्" इत्युक्तम्। खूपपणाच पलतयमिति मिलितात् पललयम्। रागः कपित्यादिद्व्यकृतो ग्यअनविशेषः ॥ ३९॥ ४०॥
For Private and Personal Use Only