________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५ अध्यायः ]
चिकित्सितस्थानम् ।
ग्रहणीमाश्रितं दोषं विदग्धाहारमूर्च्छितम् । सविष्टम्भप्रसेकार्त्ति विदाहारुचिगौरवैः ॥ आमलिङ्गान्वितं ज्ञात्वा सुखोष्णनाम्बुनोद्धरेत् । फलानां वा कषायेण पिप्पलोसर्षपैस्तथा ॥ लीनं पकाशयस्थं वाप्यामं खाव्यं सदोपनैः । शरीरानुगते सामे रसे लङ्घनपाचनम् ॥ विशुद्धामाशयायास्मै पञ्चकोलादिभिः शृतम् । दद्यात् पेयादि लध्वन्नं पुनर्योगांश्च दीपनान् ॥ ३० ॥ ज्ञात्वा तु परिपक्कामं मारुतग्रहणीगदम् । दीपनीयतं सर्पिः पाययेताल्पशो भिषक् ॥
२६३७
ग्रहणोगर्दा लिङ्ग-तस्यान्नमित्यादिकफग्रहणोगद लिङ्गानां समागमे त्रिदोषं ग्रहणीगदलिङ्गं निर्दिशेत् । अतः परं भेषजं वक्ष्यामि ॥ २९ ॥
गङ्गाधरः- तत्रादौ ग्रहणीदोषस्य आमतादिलक्षणमाह – ग्रहणीमित्यादि । ग्रहणीमाश्रितं दोषं मन्दाग्निना विदग्धाहारमूर्च्छितं विष्टम्भादिभिरामलिङ्गावितं ज्ञाला सुखोष्णेणाम्बुना उद्धरेत् वामयेत् । तथा पिप्पलीसर्षपकल्कसहितेन मदनस्य फलानां वीजकषायेण वा उद्धरेत् वामयेत् । पकाशयस्थं iti वाप्यामं विष्टम्भादिभिर्शाला सदीपनः पञ्चकोलादिभिः सह विरेचनेन स्त्राव्यम् | शरीरानुगते सामे रसे लङ्घनं पाचनश्च काय्यम् । विशुद्धामाशयाय वमनेन आमाशयशुद्धाय अस्मै पुंसे पञ्चकोलादिभिर्दीपनैः शृतं पेयादि लध्वन्नं दद्यात् । पुनर्दीपनयोगांश्च दद्यात् ॥ ३० ॥
गङ्गाधरः - ज्ञात्वेत्यादि । परिपक्कामं ज्ञात्वा मारुतग्रहणीगदं जनं दीपनीय
For Private and Personal Use Only
चक्रपाणिः - ग्रहणीमाश्रितमित्यादौ दोषमति सासान्यवचनात् वातादीनां त्रयाणामपि ग्रहणम् । आमस्यापकस्य लिङ्गरन्वितमिति आमलिङ्गान्वितम् । फलानामिति मदनफलानाम् । लीनमित्यनुत्क्लिष्टम् । पक्वाशयस्थमिति अधोगतत्वेन पक्वाशयसमीपगतम् । स्त्राव्यमिति विरेचनीयम् । सदीपनैरिति दीपनद्रव्यसंयुक्तैर्विरे वनप्रयोगः । शरीरानुगते इति शरीरव्यापके । सामे रसे इति अपक्वे रसे । आमश्वाखापकरूप एव इष्टः, आहाररसस्य रससम्बन्धेन शरीरव्यापकत्वात् । लङ्घनमनशनम् । पाचनं यवाग्वादि । विशुद्धामाशयाय इत्यत्र विशुद्धिर्हि विरेचनलङ्घनैर्यथायोग्यतया ज्ञेया ॥ ३० ॥