________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६३८
चरक-संहिता। [ग्रहणीदोषचिकित्सितम् किञ्चित्सन्धुक्षिते चाग्नौ सक्तविणमूत्रमारुतम् । द्वाहं त्राहं वा संस्निह्य खिन्नाभ्यक्तं निरूहयेत् ॥ तत एरण्डतैलेन सर्पिषा तैल्वकेन वा। सक्षारेणानिले शान्ते स्रस्तदोषं विरेचयेत् ॥ शुद्धं रुक्षाशयं ज्ञात्वा सर्वशश्चानुवासयेत् । दीपनीयाम्लवातघ्न-सिद्धतैलेन मात्रया निरूढश्च विरिक्तञ्च सम्यक् चाप्यनुवासितम् । लध्वन्नं प्रतिसंभुक्तं सर्पिरभ्यासयेत् पुनः ॥ ३१ द्विपञ्चमूल्यौ सरलं देवदारु सनागरम् । पिप्पली पिप्पलीमूलं चित्रकं हस्तिपिप्पलीम् ॥ शणवीजं यवान् कोलान् कुलत्थान सुषवीस्तथा ।
पाचयेदारनालेन दध्ना सौवीरकेण वा ॥ पिप्पल्यादिदशकयुतं सर्पिरल्पशः पाययेत । ततः किश्चित्सन्धुक्षित दीप्तेऽनौ सक्तविड़ादिकं तं नरं द्वग्रहं हं वा संस्निह्य ततः स्वेदयिखा तैलादिस्नेहाभ्यक्तं निरूहयेत्। ततो निरूहानन्तरं शान्तेऽनिले सस्तदोष स्थानाच्च्युतदोषं तं नरम् एरण्डतैलेन सक्षारेण तैल्बकेन सर्पिषा वा विरेचयेत् । एवंशुद्धं तं नरं रुक्षाशयं ज्ञाखा सर्वशश्चानुवासयेत् इति। यदि सर्वशो रुक्षाशयता न स्यात् तदा नानुवासयेत्। येनानुवासयेत् तदाह-दीपनीयेत्यादि। दीपनीयदशकं पिप्पल्यादिकम् अम्लं तिन्तिडीकादि वातघ्न वृहत्पञ्चमूल्यादिकं, तः कल्कैः सिद्धतेलेन मात्रयानुवासयेदिति। एवं निरूढश्च विरिक्तश्च सम्यगनुवासितञ्च ग्रहणीदोषान्वितं नरं लघ्वन्नं प्रतिभोजित पुनः सर्षिरभ्यासयेत् ॥३१॥
गङ्गाधरः-तत् सर्पिराह-द्विपञ्चेत्यादि। द्वे पञ्चमूल्यौ दशमूली। सुषवी कृष्णजीरकम् । दशमूल्यादीनि द्वाविंशतिं प्रत्येकं समांशेन मिलिखा
चक्रपाणिः-दीपनीययुतमिति पड्विरेचनशताश्रितीयोक्तदीपनीयग्रहणम्। स्नेहेनाभ्यक्तमिति स्नेहाभ्यक्तम् । स्रस्तदोषमिति निरूहेण स्रस्तदोषम् ॥३१॥
चक्रपाणिः-वे पञ्चमूले इत्यादौ सुरभिस्वरसः जलस्थानीये आरनालादिक्वाथ्यञ्च मिलित्वा • सुरभीस्तथा इति चक्रष्टतः पाठः ।
For Private and Personal Use Only