SearchBrowseAboutContactDonate
Page Preview
Page 707
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६३६ चरक-संहिता। ग्रहणीदोषचिकित्सितम् हृदयं मन्यते स्त्यानमुदरं स्तिमितं गुरु। दुष्टो मधुर उद्गारः सदनं स्त्रीष्वहर्षणम् ॥ भिन्नामश्लेष्मभूयिष्ठ-गुरुवर्च प्रवर्तनम् । अकृशस्यापि दौर्बल्यमालस्यञ्च कफात्मके ॥ २७॥ यश्चाग्निः पूर्वमुदिष्टो रोगानीके चतुर्विधः । तश्चापि ग्रहणीदोषं समवज प्रचक्षते ॥२८॥ पृथगवातादिनिर्दिष्ट-हेतुलिङ्गसमागमे। त्रिदोषं निर्दिशेदेवमतो वक्ष्यामि भेषजम् ॥ २६ ॥ आस्यस्योपदेहमाधुय्य भवतः। स च हृदयं स्त्यानं सान्द्रमिव मन्यते। स्तिमितं निश्चल विवद्धं गुरु च उदरं मन्यते। दुष्टो विकृत एव मधुर उगारः । भिन्नञ्च आमञ्च श्लेष्मभूयिष्ठश्च गुरु च वर्चस्तस्य प्रवर्तनम् । अकृशस्यापि देहपुष्टस्य दौर्बल्यमालस्यञ्च। कफात्मके ग्रहणीगदे भवति। इति कफजग्रहणीगदलक्षणम् ॥ २७॥ - गङ्गाधरः-तहि किमेतावानेव ग्रहणीगद उतान्योऽपि अस्तीत्यत आहयश्चेत्यादि। विमानस्थाने रोगानीकेऽध्याये पूर्व यश्चतुर्विधो जाठरोऽग्निः उद्दिष्टस्तत्र समानिवज त्रिविधं तं विषमतीक्ष्णमन्दाग्निं ग्रहणीदोषमृषयः प्रचक्षते ॥२८॥ गङ्गाधरः-त्रिभ्य एव चेति यदुक्तं तत् त्रिदोषजग्रहणीरोगहेतुलिङ्गान्याहपृथगित्यादि। वातादिग्रहणीगदे निर्दिष्टानां कषायकतिक्तत्यादि-वातग्रहणीगदहेतु- कटुजीणेत्यादिपित्तग्रहणीगदहेतु - गुर्चतिस्निग्धेत्यादिकफग्रहणीगदहेतूनां समागमे मेलने त्रिदोषं ग्रहणीगदहेतुं निदिशेत्। तथा तस्यान्नं पच्यते दुःखमित्यादि-वातग्रहणीगदलिङ्ग-सोऽजीर्णमित्यादिपित्तचक्रपाणिः-गुद्धित्यादिना कफजग्रहणीमाह । दौर्बल्यं बलहानिः ॥२७॥ चक्रपाणिः-यश्चाग्निरित्यादिश्लोकं केचित् वैशेषिकग्रहणीदोषव्यतिरिक्तदोषत्रयजग्रहणीरोगान्तनिवेशनप्रसङ्गत इति दर्शयति इति कृत्वा अनार्ष वदन्ति, किन्तु तचापीति पदेनाग्निमान्यादीनां प्राकृतानां सामान्याद ग्रहणीदोषाबाधे सति न किञ्चिद्विरोधं पश्यामः। सामान्यप्रहणीदोषेऽपि अग्निमान्यादय उक्ता इति दर्शितमेव। समवर्जमिति समप्रकृतिपुरुषाग्निबर्जम् ॥२८॥ २९॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy