________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५श अध्यायःj
२६३५
चिकित्सितस्थानम् । कटुजीर्णविदाह्यम्ल-क्षारायः पित्तमुल्वणम् । आप्नावयद्धन्त्यनलं जलं तप्तमिवानलम् ॥ सोऽजीणं नीलपीताभं पीताभः सायंते द्रवम् । पूत्यम्लोदारहृत्कण्ठ-दाहारुचितृर्दितः ॥ २६ ॥ गुवतिस्निग्धशीतादि-भोजनादतिभोजनात् । भुक्तमात्रस्य च स्वप्नाद्धन्त्यग्निं कुपितः कफः ॥ तस्यान्नं पच्यते दुःखं हल्लासच्छईयरोचकाः। आस्योपदेहमाधुर्य-कासष्ठीवनपीनसाः॥
गङ्गाधरः-पित्तग्रहणीरोगहेतूनाह-कदजीर्णत्यादि। विदाहि अर्द्धपरि. पाकि भृष्टतण्डुलादि। क्षारो भस्म परिस्र तजलकृतः सतिक्तलवणरसो यवक्षारादिः। आदिना लवणतीक्ष्णादि। एभिरुल्वणं पित्तं तथा भवति यथा ग्रहणीगदानेव कुरुते नान्यानिति उभयहेतवः कटादयः। तथोल्वणं पित्तं द्रवांशेन जाठरमनलमाप्लावयद्धन्ति न चौष्ण्यादग्निं वद्धयति औल्वण्यात् । यथा तप्तजलं वाह्यमनलं द्रवेणाप्लावयद्धन्ति न खौष्ण्याद वर्द्धयति । तस्य लिङ्गान्याहस इत्यादि। स पित्तहतानलः पुरुषः पीताभः पित्तेन भूला नीलपीताभमजीर्ण द्रवं पुरीषं सार्यते। पूत्यम्लोद्गारादिभिरदि तश्च भवति। इति पित्त ग्रहणीरोगलिङ्गम् ॥२६॥ __ गङ्गाधरः-अथ कफग्रहणीरोगहेतूनाह-गुतीत्यादि। आदिना मधुरद्रवपिच्छिलादीनां ग्रहणम् । भुक्तमात्रस्य जनस्य कफद्धौ पुनर्दिवास्वमात् स्निग्धात् ग्रहणीरोगारम्भको यथा स्यात् तथा कुपितः कफोऽग्निं हन्ति । उक्तं प्राक-रात्री जागरणं रुक्षं स्निग्धं प्रस्वपनं दिवा। अरुक्षमनभिष्यन्दि बासीनप्रचलायितमिति। अभुक्तवतस्तु नाग्निं हन्ति दिवास्वमः। न चेह रात्रिस्वमो विवक्षितः। तस्य भुक्तमात्रदिवास्वमकुपितकफहताग्नेः पुसो दुःखं यथा स्यात् तथा अन्नं भुक्तं पच्यते। हल्लासादयश्च स्युः।
चक्रपाणिः—पैत्तिके पित्तेनाग्निहननं क्रियते इति दर्शयन्नाह। उष्णस्यापि हि द्रवतया अग्निनिर्वापणे दृष्टान्तमाह-जलं तप्तमित्यादि ॥२६॥
For Private and Personal Use Only