SearchBrowseAboutContactDonate
Page Preview
Page 705
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २६३४ चरक संहिता | [ ग्रहणीदोषचिकित्सितम् कण्ठास्यशोषः क्षुत् तृष्णा तिमिरं कर्णयोः स्वनः । पार्श्वोरुवङ चणग्रीवा-रुगभीक्ष्णं विसूचिका ॥ हृत्पीड़ा कार्यदौर्बल्यं वरस्यं परिकर्त्तिका । शृद्धिः सर्व्वरसानाञ्च मनसः सदनं तथा ॥ जीर्णे जीर्य्यति चाध्मानं भुक्ते स्वास्थ्यमुपैति च । स वातगुल्म हृद्रोग- लीहाशङ्की च मानवः ॥ चिराद् दुःखं द्रवं शुष्कं तन्वामं शब्दफेनवत् । पुनः पुनः सृजेद् वचः श्वासकासार्दितोऽनिलात् ॥ २५ ॥ Acharya Shri Kailassagarsuri Gyanmandir शुक्तपाकमम्लपाक मन्दाग्निजनितान्भविदाहात् । खराङ्गता वातगुणरौक्ष्यत्त्वम्गतस्नेहशोषात् कर्कशाङ्गत्वं, कण्ठास्यद्रवशोषात् कण्ठास्यशोपश्च क्लोम्नः शोषात् तृष्णा क्षुधा, रौक्ष्यलाघवाभ्यां तिमिरं नेत्ररोग विशेषस्तेनाल्पा दृष्टिः । पार्श्वदिषु रुक पीड़ा अभीक्ष्णं भवति । विसूचिका सूचीभिरिव गात्रवेदना सहितामान्नस्योद्धधिः प्रवृत्तिः परिकत्तिका गुददेशे कर्त्तनवत् पीड़ा। सर्व्वरसानामाहारे गृद्धिलभः राजसवातेन मनोराज्याधिकभावात् । मनसः सदनं ग्लानिः व्याधियातनया । भुक्तेऽन्ने जीर्णे च जीर्य्यति चाध्मानं भुक्ते भुक्तमात्रे स्वास्थ्यमुपैति । स वातग्रहणीरोगवान वातगुल्माद्याशङ्की वातगुल्माकारवदुदरे लक्ष्यते न च वातगुल्मः, वातहृद्रोगवद हृदये पीड़ा लक्ष्यते न तु वातहृद्रोगः, वातप्लीहव वामकुक्षौ लक्ष्यते न तु वातप्लीहेति । स च मानवो द्रवं वच्चः कचिच्छुष्कं वर्चः कचित् तनु स्वल्पं वचः कचिदाममपक्वं वर्चः शब्दफेनवदधोवातकृतशब्दसहितं फेनवच्च पुनःपुनः सृजेत् मुञ्चेत् । एवं श्वासकासाभ्यामद्दितः स्यादनिलाद् ग्रहणीरोगे ।। २५ ।। , चक्रपाणि: - शुक्तमिवान्नस्य पाकः शुक्तपाकः । गृन्द्रिः सर्व्वरसानामिति सप्तम्यर्थे षष्ठी । जीण जीर्य्यति अन्न इति शेषः । गुल्मादिशङ्कित्वं गुल्मादिसदृशपीडायुक्तत्देन भवति ॥ २५ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy