SearchBrowseAboutContactDonate
Page Preview
Page 704
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५श अध्यायः] चिकित्सितस्थानम्। २६३३ वातात् पित्तात् कहाच स्यात् तद्रोगस्त्रिभ्य एव च छ । हेतुं लिङ्ग चिकित्साश्च शृणु तस्य पृथक् पृथक् ॥ २४ ॥ कषायकटुतिक्ताति-रुक्षशीताल्पभोजनैः। प्रमितानशनात्यध्व-वेगनिग्रहमैथुनैः॥ मारुतः कुपितो वहि संछाद्य कुरुते गदान् । तस्यान्नं पच्यते दुःखं शुक्तपाकं खराङ्गता ॥ धारयति पकश्चान्नं विण्मूत्ररूपं पार्श्वतः सृजति। दुर्बलाग्ने लाद दुष्टा तु ग्रहणी आममेवान्नं विमुञ्चति ॥२३॥ गङ्गाधरः-तस्या रोगः कारणतो भिद्यते : वातादित्यादि। तस्या ग्रहण्या रोगस्तद्रोगो वातात् कुपितात् स्यात् पित्तात् स्यात् कफात् स्यात् त्रिभ्य एव च वातपित्तकफेभ्यो मिलितेभ्य एव च स्यादिति चतुबिधो ग्रहणीरोगस्तस्य पृथक पृथक हेतु लिङ्गं चिकित्साश्च शृणु ॥२४॥ गङ्गाधरः-तत्र वातं कोपयिता ग्रहणीरोगं यद् यत् कारणं करोति तदाह-कषायेत्यादि। अत्र केचित् पठन्ति-कटुतिक्तकषायाति-रुक्षसन्दुष्टभोजनैरिति पाठम् । संयोगविरुद्धभोजनं संदुष्टभोजनम् । शीतादिभोजनरिति पाठे आदिना मूक्ष्मलध्वादिग्रहणम् ; अस्मिन् पाठे प्रमितानशनेति पाठः, प्रमितमल्पाशनम् । इहाल्पभोजनैरिति पाठे प्रमृतानशनेति पाठः । प्रमृतमतीतकालभोजनमनशनं लङ्घनम्। एभिर्मारुतः तथा कुप्यति यथा वह्नि संछाद्य ग्रहणीगदान् कुरुते नान्यान् , इत्युभयहेतव एवैते न तु वातकोपस्यव हेतवः । एवं सर्वत्र निदानोपदेशे बोध्यम्। अस्य लिङ्गान्याह-तस्यान्नमित्यादि । पित्तव्यापारकरणेन अनुकूलिता, उपवृहितेति अग्निना वृहणव्यापारकरणेन सशक्तीकृता किंवा उपस्तम्भत्वेन उपवृहिता भव पक्षे उपस्तम्भसाधारण्यं ग्रहण्या आह । ग्रहण्याः प्राकृतं कर्म भभिधाय वैकृतं कर्म आह-दुर्बलेत्यादि। दुर्बलाग्निश्च अबलाश्चेति किंवा दुर्बलम् अग्निबलं यस्याः सा दुर्बलाग्निबला। इष्टादिति दोषदुष्टात् । आमं विमुञ्चतीति अपक्कमेवान विमुञ्चति । पूर्वरूपे पक्वमाम वा विमुञ्चतीत्यनेम विदग्धरूपमाममेवोक्तम् । इह स्वामं नियमेन विमुश्चति इति न विरोधः ॥ २३ ॥ चक्रपाणि:-वातपित्तकफसन्निपातजान् ग्रहणीभेदानाह-वातादित्यादि। सर्वादिति सनिपातात् ॥२४॥ • वातात् पित्तात् कफात् सर्वाद ग्रहणीदोष उच्यते । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy