________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२६३२
चरक संहिता ।
| ग्रहणीदोष चिकित्सितम्
शूनपादकरः सास्थि पर्व्वरुक छईनं ज्वरः । सास्थि-पर्व्वरुक् लोहानुगन्धि- तिक्ताम्ल उद्गारश्चास्य जायते ॥ २१ ॥ पूर्व्वरूपन्तु तस्येदं तृष्णालस्यं बलचयः । विदाहोऽन्नस्य पाकश्च चिरात् कायस्य गौरवम् ॥ २२ ॥ अनाधिष्ठानमन्नस्य ग्रहणाद ग्रहणी मता । नाभेरुपर्य्यग्निबलेनोपष्टब्धोपवृहिता ॥
पक्वं धारयत्यन्नं एवं सृजति पार्श्वतः । दुर्बलाग्निबलाद टुष्टा त्वाममेव विमुञ्चति ॥ २३ ॥
Acharya Shri Kailassagarsuri Gyanmandir
विबद्धं वा द्रवमुपवेश्यते वच्चस्त्यज्यते गुदैन । स च तृष्णाद्यन्वितः शुनपादकरः पादकने शोफान्वितः सास्थिपर्व्वरुगादियुक्तश्च भवति । अस्य ग्रहणी - गदिनो लोहानुगन्धितिक्ताम्लो रक्तगन्धानुगततिक्ताम्ल उद्गारश्च जायते । इति ग्रहणीगदस्य सामान्यलक्षणम् ॥ २१ ॥
I
गङ्गाधरः -- अस्य पूर्वरूपनाह - पूर्वरूपन्वित्यादि । अन्नस्य भुक्तस्य प्रायो विदाहः अद्धपरिपाकः कदाचित् चिराच्च पाकः ॥ २२ ॥
गङ्गाधरः- ननु का पुनः ग्रहणीत्युच्यते इत्यत आह- अग्न्यधीत्यादि । अग्नेर्जाठराग्नेयदधिष्ठानं सा खल्वन्नस्य भुज्यमानस्य ग्रहणाद् ग्रहणी नाम नाड़ी मता । क च सा वर्त्तते इत्यत आह-नाभेरुपरि वर्त्तते, तदधस्ताज्जाठरोऽग्निवंत्तते । तस्याग्नेर्बलेनोपटब्धा चोपट हिता च । यथामिबलं तथा सोपभ्यते तथैव ह्यते । अग्नेरल्पवले स्वल्पाकारा भवत्यतिबले विपुला भवतीति । तस्याः कार्य्यमाह - अपकमित्यादि । भुक्तमपकमन्नं सा ग्रहणी एवान्नं प्रायो ह्यस्य विदह्यते इति पक्कापक भवति । अतिसृष्टमिति विमुक्तम् । तम एव
तमकः ॥ २१ ॥
चक्रपाणिः -पूर्वरूपे विदाहोऽन्नस्येति विशिष्टो दाहो विदाहः ॥ २२ ॥
चक्रपाणिः -- सम्प्रति ग्रहणीदोषस्य सुखप्रतिपत्त्यर्थं ग्रहण्याः स्वरूपं प्रकृतञ्च कर्म आह । अग्न्यधिष्ठानम् अग्नेराश्रय इत्यथः । ग्रहणीसं ज्ञानिमित्तमाह-अन्नस्येत्यादि । ग्रहणादिति धारणात् नाभेरुपदकस्य धारणादित्यर्थः । किंवा नाभेरुपरि अग्नेरूर्द्धज्वलनेन उपस्तम्भिता उपवॄहिता सती अपक्कम् अन्न ं धारयति पक्कञ्च पाश्र्वतः सृजति इति वामपार्श्वतः सृजति । यतः ग्रहणी दौ वामपार्श्वाश्रयौ तेन वामे च पार्श्वे पक्क ं सृजतीत्युक्तम् । उपस्तम्भिता इति अग्निना
For Private and Personal Use Only