SearchBrowseAboutContactDonate
Page Preview
Page 702
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५श अध्यायः] - चिकित्सितस्थानम् । २६३१ विषमो धातुवषम्यं करोति विषमं पचन् । तीक्ष्णो मन्देन्धनो धातून् विशोषयति पावकः ॥ युक्तं भुक्तवतो युक्तो धातुसाम्यं समं पचन् । दुबलो विदहत्यन्नं तद् यात्यूर्द्ध मधोऽपि वा। अधरतु पक्कमामं वा प्रवृत्तं ग्रहणीगदः। उच्यते सर्वमेवान्नं प्रायो ह्यस्य विदह्यते॥ अतिसृस्टं विवद्धं वा द्रवं तदुपवेश्यते। तृष्णारोचकवरस्य-प्रसेकतमकान्वितः॥ गङ्गाधरः--अन्नविषमेवं विधरोगकृत् कथं स्यादित्यत आह-विषम इत्यादि। विषमः पावको जाठराग्निभुक्तमन्तं विषमं पचन् धातुवैषम्यं वातादिवैषम्यं करोति। तीक्ष्णो जाठरः पावको मन्देन्धनोऽल्पाहारात्मककाष्ठः संस्तदाहारमिन्धनं दग्ध्वा रसादीन् धातून विशोषयति। युक्तः समः पावको युक्तं मात्रावदाहारं भुक्तवतो जनस्य तदाहारं समं पचन् धातुसाम्यं करोति। दुर्बलो मन्दः पावकः स्वल्पमप्पन्नं भुक्तवतो विदहति विगतपाकं करोति । तद्विदग्धमन्नमूद्ध याति वमिना, अधोऽपि वा गुदेन याति । तत्राधस्तु यद् याति पकवाप्यामं वा स ग्रहणीगद उच्यते। अस्य ग्रहणीगदवतो जनस्य सर्वमेव लघु वा गुरु वा स्निग्धं वा रुक्षं वान्नं यस्मात् प्रायो विदह्यते। तस्य लक्षगमाह-अतीत्यादि। तद्विदग्धमन्नमतिसृष्टं द्रवं रसशेषान्नस्य गदानाह-मूखरोगानित्यादि। रसादिजानित्यव ये रसादिजा अरुच्यादय उक्तास्ते भवन्तीति इयम् ॥ २० ।।। चक्रपाणिः-अजीर्णलक्षणमभिधाय अग्निदोषलक्षणमाह-विषम इत्यादि। तीक्ष्णाग्नि कार्यमाह-तीक्ष्ण इत्यादि। अब मन्देन्धन इत्यनेन तीक्ष्णोऽपि यदि शुचीन्धनो भवति तदा धातुपोषणं भवतीति दर्शयति। अग्निप्रसङ्गात् समाग्नेः कार्यमाह-युक्तमित्यादि। युक्त इति समः। युक्तमन्न पचन् धार साम्यं करोति इत्यर्थः। समशब्देन समानो वायुः अग्निसहायो गृह्यते। किंवा युक्तवायुतया धातुसाम्यं करोति, युक्तशब्देन च कफपित्तसाम्यम् अग्नौ गृह्यते। यतः समः समरिति वचनेन समाग्नित्वमुक्तम् । मन्दाग्निव्यापारमाह-दुर्बल इत्यादि। युक्तविकारेषु प्रधानत्वेन अध्यायप्रकृतं प्रहणीदोषविकारं निारयन्नाह-अधस्त्वित्यादि। पक्कमाम वेति वाशब्दः समुच्चये। तेन किञ्चिरपक्व किञ्चिदपकम् । कुतः पक्कापक्क स्रवतीत्याह-सर्वम् For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy