________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६३०
चरक-संहिता। प्रहणीदोषचिकित्सितम् यमपीनसमेहादोन् कफजान् कफसङ्गतम् । करोति वातसंसृष्टं वातजांश्चापरान् गदान् ॥ मूत्ररोगांश्च मूत्रस्थं कुतिरोगान् शकूद्गतम् । रसादिभिश्च संसृष्टं कुर्य्याद् रोगान् रसादिजान् ॥ २०॥
तिक्ताम्लोद्गारगौरवैः। हत्कण्ठदाहारुचिभिरम्लपित्तं वदेद भिषक् ॥ विरुद्धदुष्टाम्लविदाहिपित्त-प्रकोपिपानानभुजो विदग्धम् । पित्तं स्वहेतूपचितं पुरा यत् तदम्लपित्तं प्रवदन्ति सन्तः॥ तृड्दाहमूभ्रिममोहकारि प्रयात्यधो वा विविधप्रकारम् । हल्लासकोठानलसादहषे-स्वेदाङ्गपीतखकरं कदाचित् ॥ वान्तं हरित्पीतकनीलकृष्णमारक्तरक्ताभमतीव चाम्लम्। मांसोदकामन्वतिपिच्छिलाच्छं श्लेष्मानुयातं विविधं रसेन ॥ भुक्ते विदग्धेऽप्यथवाऽविदग्धे करोति तिक्ताम्लवमि कदाचित् । उद्गारमेवंविधमेव कण्ठ-हृत्कुक्षिदाहं शिरसो रुजश्च ॥ करचरणदाहमोष्ण्यं महतीमरुचिं ज्वरश्च कफपित्तम्। जनयति कण्डूमण्डलपिड़काशतनिचितगात्ररोगचयम् ॥ सानिलं सानिलकर्फ सकर्फ तच्च लक्षयेत् । दोष लिङ्गेन मतिमान् भिषङमोहकरं हि तत् ॥ कम्पप्रलापमूर्छाचिमिचिमिगात्रावसादशूलानि। तमसो दर्शनविभ्रमविमोहहर्षाः स्युरनिलयुते ॥ कफनिष्ठीवनगौरवजड़तारुचिशीतसादवमिलेपाः। दहनबलसादकण्डू निद्रा चिह्न कफानुगते॥ उभयमिदमेव चिह्न मारुतकफसम्भवे भवत्यम्ले। 'विज्ञाय च भिषगेवं क्रिययारभेत यथादोषम् ॥ रोगोऽयमम्लपित्ताख्यो यत्नात् संसाध्यते नवः। चिरोत्थितो भवेद् याप्यः कृच्छसाध्यः स कस्यचित्।” इति । यक्ष्मेत्यादि। कफसङ्गतं तदन्नविषमजीणं यक्ष्मादीन् कफजान् गदान् जनयति। वातसंसृष्टं तदन्नविषं वातजांश्चापरान् गदान् करोति। मूत्रेत्यादि। मूत्रस्थं तदन्नविषं मूत्ररोगान् करोति । शकुनगतमन्नविषं कुक्षिरोगान् करोति। रसादिभिर्धातुभिः संसृष्टमन्नविषं रसादिजान् रोगान करोति ॥२०॥
लक्षणमाह। एतच्च पित्तादिसंसर्गकृतं लक्षणम्। अजीर्णस्य कोष्टमाखगतत्वेन यक्ष्मादिविकारकरणे सामोपलब्धेः अम्लपित्तम्चेति अम्लगुणोद्रिक्तं पित्तम्। अस्य तन्वान्तरे लक्षणमुक्तम् "अविपाकक्लमोस्क्लेद-तिक्ताम्लोद्गारगौरवैः। हत्कण्ठदाहारुचिभिश्चाम्लपित्तं विनिर्दिशेत् ।" इति । यक्ष्मणस्त्रिदोषजत्वेऽपि स्रोतोऽवरोधे कफव्यापारप्राधान्यात् इह कफजत्वमुक्तम् । किट्टधातुयोगेन
For Private and Personal Use Only