________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५श अध्यायः
चिकित्सितस्थानम् ।
२१२६ विरेकवमनस्नेह-विभ्रमाद व्याधिकर्षणात्। देशकालतवैषम्याद वेगानाञ्च विधारणात् ॥ दुष्यत्यग्निः स दुष्टोऽन्नं न तत् पचति लघ्वपि । अपच्यमानं शुक्तत्वं यात्यन्नं विषताश्च तत् ॥ १६ ॥ तस्य लिङ्गमजीर्णस्य विष्टम्भः सदनं तथा। शिरोरुक् चैव मूर्छा च भ्रमः पृष्ठकटीग्रहः ॥ जम्भागमईस्तृष्णा च ज्वरलर्दिःप्रवाहणम् । अरोचकाविनाको च घोरमन्नं विषञ्च तत् ॥ पित्तेन सह संमृष्टं दाहतृष्णामुखामयान् । जनयत्यम्लपित्तश्च पित्तजांश्चापरान् गदान् ॥
अभोजनादित्यादि । अभोजनादिकमविधिभोजनं विरेकादिकश्चाग्निदुष्टिकारणं, विरेकादिविभ्रमोऽसम्यगयोगः। एभ्यो हेतुभ्योऽग्निदुष्यति, दुष्टः सोऽग्निस्तदन्नं लघ्वपि भुक्तं न पचति मन्दवात् । अपच्यमानं तदन्नं शुक्तखमम्लत्वं याति विषताश्च तद याति ॥१९॥
गाधरः-तस्याजीर्णस्यानस्य लिङ्गमाह-तस्येत्यादि । विष्टम्भ आध्मानं तथा सदनादिकश्च। इत्येवमजीर्ण तद्घोरं भयानकमन्न विषमिव मारकलाद विषश्ोच्यते। पित्तनेत्यादि । तदन्नविषं पित्तेन संसृष्टं दाहतृष्णादि, पित्तज. मुखामयान् जनयति अम्लपित्तश्च। पित्तनांश्वापरानोषचोषादीन जनयति । तत्राम्लपित्तलक्षणमुक्तं तन्त्रान्तरे। तद्यथा। "अविपाकक्लमोत्क्लेशइत्यादि। देशवैषम्यं देशव्यापत्। सा च जनपदोद्ध्वंसनीये प्रोक्ता। कालशब्देन च संवत्सरात्मककाल उच्यते। ऋतुशब्देन तु शिशिरादिऋतुः । कालवैषम्येण सर्वेषां वैषम्यं, सर्व एव ऋतवः पठ्यन्ते, ऋतुवैषम्येण द्व एक एव रिति विशेषः। शुक्तत्वमिति (आमताम्) अम्लत्वम् । विषतामिति विषरूपताम् । विषं यथा बहुविकारकारि भवति तथा तदरूपताम्, अनेन सर्व एवाजीर्णभेदा अवरुद्धा ज्ञया ये तन्त्रान्तरे "आमं विदग्धं विष्टब्धं कफपित्तानिलैः क्रमात् । अजीर्ण केचिदिच्छन्ति चतुर्थ रसशेषतः" ॥१९॥
चक्रपाणिः-तस्येति सामान्याजोर्णस्य । लक्षणं विष्टम्भ इत्यादि। विष्टम्भोऽप्रचलनरूपतया भवस्थानम् । घोरम् अन्नविषञ्च तत् पित्तेन संसृज्यमानम् इत्यादिना पित्तदृष्टस्याजीर्णस्य
For Private and Personal Use Only