SearchBrowseAboutContactDonate
Page Preview
Page 699
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २६२८ चरक-संहिता। ग्रहगीदोषचिकित्सितम् तस्मात् तं विधिवद्युक्तरन्नपानेन्धनहितः। पालयेत् प्रयतस्तस्य स्थितौ ह्यायुर्बलस्थितिः ॥ १७॥ यो हि भुङक्ते विधिं त्यक्त्वा ग्रहणोदोषजान् गदान् । स लोल्याल्लभते शीघ्र वक्ष्यन्तेऽतः परन्तु ये ॥१७॥ अभोजनादजीर्णाति-भोजनाद् विषमाशनात् । असात्म्यगुरुशीताति-रुक्षसंदुष्टभोजनात् ॥ वृद्धिः क्षयेग क्षय इति, तस्मात् तमन्नपक्तारं हितविधिवद्युक्तैरनपानेन्धनः प्रयतः सन् पालयेत्। करमात् पालयेत् ? हि यस्मात् तस्यानपक्तः स्थितो आयुबेलयोः स्थितिः ।। १७॥ गङ्गाधरः-कस्मात् तस्थितावायुर्बलस्थितिरित्यत आह-यो हीत्यादि । हि यस्मात् यो विधिं त्यक्त्वा लोल्याल्लोभात् भुङ्क्ते स ग्रहपीदोषजान् गदान शीघ्र लभते । के गदाः ? अतः परं ये गदा वक्ष्यन्ते । इति ।। १८॥ गङ्गाधरः-तेषां ग्रहणीदोषजानां गदानां कारणमविधिभोजनान्याह भयमन्तरग्निर्मूलं सर्वत्र तस्मात् तं पालयेदिति योज्यम् । विधिवद्युक्तरित्यत्र आहारविधियोगात् उपयुतः। आयुर्बलस्थितिरित्यत्र अन्नपाचकाग्निस्थितौ आयुर्बलादीनां स्थितिलक्षणीया ॥ १७ ॥ चक्रपाणिः-विपर्यये दोषमाह-यो होत्यादि। ग्रहणीदोषजा एतेन रक्ष्यम णलक्षणाः स्वत्वारो ग्रहणीविकारा विशेषेण ग्रहणीदोषशब्दवाच्या गृह्यन्ते। तथाग्निमान्याजीर्णादयश्च प्रहग्याश्रिता रोगा गृह्यन्ते। अग्निमान्द्याजीर्णादयस्तु यद्यपि ग्रहण्याश्रितस्वे ग्रहणीरोगा एवं तथापीह ग्रहणीरूपनाडीव्यापारवैपरीत्येन ये जायन्ते त एव मुख्यग्रहणीशब्दवाच्याश्चत्वारो रोगाः । यतोऽवस्तु पवमामं वा इत्यादिना ग्रहणीगदसामान्यविशिष्टलक्षणविशिष्टमेव ग्रहणीगढं ग्रहणीप्राकृतव्यापारोपमर्दैन जायमानं वक्ष्यति। वक्ष्यति च ग्रहण्या दुष्टमदृष्टञ्च रूपम् "भगक्क भारयस्यन्नं पक्व सृजति पार्श्वतः”। “सा दृष्टा बहुशो भुक्तमाममेव विमुञ्चति"। न चेयं पक्काचविमोक्षलक्षणा दृष्टिः। अग्निदोषे आमाद्यजीर्ण शब्दे वा अनेन विशेषाभिधेयग्रहणी. शब्दत्वं प्रहग्याश्रितदोषजन्यग्रहणीगदत्वमेवेहोच्यते। अग्निदोषाणां न विशेषाद् ग्रहणीगदत्वम् भतिसारे यद्यपि अपक्वान्नमुञ्चनमस्ति, तथापि तस्य भिन्नसंप्राप्तिकत्वात् तथा चिकित्साभेदात् पाहणीदोषान्यत्वमुक्तम् ॥ १८॥ चक्रपाणि:-एवं व्यवस्थिते सामान्येन ग्रहणीदोषजविकाराणां हेत्वादीन्याह-अभोजनाव For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy