SearchBrowseAboutContactDonate
Page Preview
Page 698
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५ अध्यायः ] चिकित्सितस्थानम् । २६२७ क्षिप्यमाणः खवैगुण्याद रसः सजति यत्र सः। तस्मिन् विकारान् कुरुते विवर्षमिव तोयदः ७ ॥ दोषाणामपि चैवं स्यात् तत्र देशे प्रकोपणम्। । इति भौतिकधात्वन्न-पक्तणां कर्म भाषितम् ॥ १६ ॥ अन्नस्य पक्ता सर्वेषां पक्तणामधिपो मतः। तन्मूलास्ते हि तवृद्धि-क्षयवृद्धि क्षयात्मकाः॥ परिटत्तिः स्वास्थ्यश्चानुवर्तते। क्षिप्यमाण इत्यादि। एवं व्यानेन क्षिप्यमाणो रसः खवैगुष्पाद रसवहस्रोतोवैगुण्यात् यत्र सज्जति लग्नो भवति न चलति, तस्मिन् स रसो विकारान् कुरुते, खवैगुण्यात् तोयदो यथा विवर्ष कुरुते। एवं दोषाणामपि यत्र सज्जनं तत्रैव देशे प्रकोपः स्यादिति। उपसंहरतिइतीत्यादि। इत्येतद् भोतिकानां धातूनामन्नानाञ्च पक्तारो येऽनयस्तेषां कम्म भाषितमिति ॥१६॥ गङ्गाधरः-अन्नस्येत्यादि। तत्र सर्वेषां पक्तणामधिपोऽन्नस्य पक्ता जाठराग्रिमेतः। कस्मादधिप इत्यत आह-तन्मूला इत्यादि। हि यस्मात ते धावनयस्तदन्नपक्तवह्निमूलाः, यस्माच तदन्नपक्तर्जाठराग्ने या धावनीनां द्रवाणां ग्रहणं भवति। विक्षेपोचितं प्राकृतं कर्म यस्य स विक्षपीचितकर्मा, तेन व्यानेन । युगपदित्येककालम् । सर्वतः इति सर्वस्मिन् देशे। विक्षिप्यते नीयते । अजस्रमिति अविश्रान्तम् । सदेति सर्वकालम्। नन्वेवं सर्वत्र रसविक्षेपे कथमेकदेशेन रसो विकाराश्रयो दृश्यते इत्याहक्षिप्यमाण इत्यादि। खवैगुण्यादिति स्रोतोवैगुण्यात् । सजतीति तिष्ठति । विकारं कुरुत इति रसाश्रयी विकारं कुरुते, रसोऽपि विकारकरणे आश्रयतया व्याप्रियते तेनेह तस्य कर्तुत्वं युक्तम् । खे वर्षमिव तोयद इति यथा चण्डेन वायुना नीयमानो मेघो यत्र सक्तो भवति तत्रैव वर्ष करोति तथा रसोऽपीत्यर्थः। यथा रसः एकदेशे विकारं करोति एवं दोषा अपि एकदेशविकारं कुर्वन्ति इत्याह। सुश्रुतेऽप्याह-"कुपितानां हि दोषाणां शरीरे परिधावताम् । यत सङ्गः खवैगुण्याद व्याधिस्तखोपजायते"। उक्तमग्नीनां कर्म उपसंहरति-इति भौतिकेत्यादि । भौतिकाः पञ्च धास्वग्नयः सप्त अन्नपक्तकः ॥ १४-१६॥ चक्रपाणिः-अन्नपक्तमूलत्वे हेतुगर्भविशेषणमाह-तवृद्धीत्यादि। तस्य जाठराग्नेः वृद्धया वृद्धद्यात्मक क्षयेण च क्षयात्मकः, तस्मादन्वयव्यतिरेकार्थविधायित्वात् तन्मूलाद् इत्यर्थः। यतश्च .. * ख वर्षमिव तोयदः इति तथा स्यादेकदेशप्रकोपणम् इति चक्रतः पाठः । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy