________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६२६
चरक-संहिता। [ग्रहणीदोषचिकित्सितम् मेदसास्थीनि पूर्य्यन्ते स्नेहो मज्जा ततः स्मृतः। तस्मान्मजज्ञस्तु यः स्नेहः शुक्र संजायते ततः॥ वारवाकाशादिभिर्भावः शोषियं जायतेऽस्थिषु । तेन स्रवति तच्छुक नवात् कुम्भादिवोदकम् ॥ स्रोतोभिः स्यन्दते देहात् समेतं शुक्रवाहिभिः। हर्षेणोदीरितं वेगात् सङ्कल्पाच्च मनोभवात् ॥ . विलीनं घृतवद् व्यायामोष्मणा स्थानविच्युतम् । वस्तो सम्भृत्य निर्याति स्थलान्निम्नमिवोदकम् ॥ १५ ॥ व्यानेन रसधातुर्हि विक्षेपोचितकर्मणा।
युगपत् सर्वतोऽजस्र देहे विक्षिप्यते सदा॥ समीरणोऽस्थ्नां मध्ये शोषियं करोति। इति पञ्चमस्य । । मेदसेत्यादि । तदस्थिस्नेहेन मेदसा तानीस्थीनि पूयन्ते तेनास्थिमध्ये स्नेहो मज्जा भवति, तस्मादस्थिमध्यस्थान्मजनस्तु पकात् स्वोष्मणा यः स्नेहस्ततः स्नेहात् सोमगुणात्मकं शुक्रं संजायते। मशि पच्यमाने ततो जायमाने शुक्र वाय्वाकाशादिभिर्भावरस्थिषु सावयवेषु सूक्ष्मशोषियं यज्जायते, तेन शोषियेणास्थिमध्यस्थमज्जपाकाजातं तत् शुक्रं स्रवति, नूतनात् कुम्भाद यथोदकं स्रवति। इति षष्ठस्य। स्रोतोभिरित्यादि। शुक्रवाहिभिः स्रोतोमिस्तच शुक्रं देहात् स्यन्दते । कामिनीसन्दर्शनस्पर्शनादिना हर्षेणोदीरितं वेगात् सङ्कल्पान्मानसक्रियातः मनोभवात् कन्दविर्भावाच्च देहात् समेतं. समागतं मैथुनादिव्यायामजेनोष्मणा घृतवद् विलीनं द्रवीभूतं स्थानाद्विच्युतं सत् वस्तौ सम्भृत्य वहि निर्याति यथोदकमुच्चस्थलान्निम्न स्थलं निर्यातीति । देहानिःसरणं प्रसङ्गादुक्तमिति ॥१५॥
गङ्गाधरः-इति प्रश्नोत्तरानन्तरं यथा स्वास्थ्यं वर्त्तते तदाह-व्यानेनेत्यादि। हि यस्मात् विक्षेपोचितकम्मेणा व्यानेन वायुनाजस्र देहे सदा सर्वतः पूर्वदक्षिणपश्चिमोत्तरो धो युगपद् रसधातुर्विक्षिप्यते, तस्साच्चक्रवत् - चक्रपाणिः-अथ कोऽन्नरसं रक्तादिधातुपोषकं प्रेरयति येन तत्र तत्र रसः सर्पतीत्याहग्यानेनेत्यादि । रसरूपो धातुः किंवा रसतीति रसो द्रवधातुरुच्यते। तेन रुधिरादीनामपि
For Private and Personal Use Only