SearchBrowseAboutContactDonate
Page Preview
Page 696
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५श अध्यायः ] चिकित्सितस्थानम् | सर्वदेहगतं शुक्र प्रवदन्ति मनीषिणः । तथास्थिमध्यमज्ज्ञश्च शुक्र भवति देहिनाम् । छिद्रं न दृश्यतेऽस्थनाञ्च तन्निःसरति वा कथम् ॥ १४ ॥ एवमुक्तस्तु शिष्येण गुरुः प्राहेदमुत्तरम् । तेजो रसानां सव्वेषां मनुजानां यदुच्यते । पित्तोष्मणः स रागेण रसो रक्तत्वमृच्छति ॥ वाध्वम्बुतेजसा रक्तमुष्मणा चाभिसंयुतम् । स्थिरतां प्राप्य मांसं स्यात् खोष्म या पकमेव तत् ॥ स्वतेजोऽम् जुगुणस्निग्धोद्रिक्तं मेदोऽभिजायते । पृथिव्यग्न्यनिलादीनां सङ्घातः स्वोष्मणा कृतः ॥ खरत्वं प्रकरोत्यस्य जायतेऽस्थि ततो नृहाम् । करोति तत्र शौषिर्य्यमस्थनां मध्ये समीरणः ॥ For Private and Personal Use Only २६२५ जायते । मज्ज्ञः परिणामेन शुक्रं जायत । इति यदि, तदा मनीषिणः सर्व्वे शुक्र सर्व्वदेहगतं यत् प्रवदन्ति तथा तत्रास्थिमध्ये मज्जा मज्ज्ञस्तु शुक्रं भवति । अस्थनाञ्च छिद्रं न दृश्यते कथं तदस्थिमध्यगतमज्जजातं शुक्रमस्थनामच्छिद्राणां वहिः सर्व्वदेहे निःसरति ॥ १४ ॥ गङ्गाधरः -- इत्येतैः प्रश्नैः शिष्येणोक्तो गुरुरिदमुत्तरं प्राह - तेजो रसाना - मित्यादि । सर्वेषां मनुजानां रसानामाहारजधातूनां पाञ्चभौतिकानां यत् तेज उच्यते, तेन तेजसा रागेण स रसः पित्तोष्मणः पाकात् रक्तत्वमुपगच्छति । इति प्रथमप्रश्नोत्तरम् | 0 | तच्च रक्तं वाय्वम्बुतेजसा चोष्मणा चाभिसंयुतं स्थिरतां प्राप्य मांसं स्यात् । इति द्वितीयस्य | 0 | तच्च मांसं स्वोष्मणा पक स्वतेजोऽम्बुगुणस्निग्धोद्रिक्तं मेदोऽभिजायते । इति तृतीयस्य । ० । अस्य मेदसः पृथिव्यादीनां सङ्घातः स्वोष्मणा कृतः स्वोष्पणा पाकात् खरत्वं प्रकरोति, ततो नृणां कठिनमस्थि जायते । इति चतुथस्य |०| तत्र स्वोष्पणा पच्यमानेऽस्थिन
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy