SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१२४ चरक-संहिता। [ग्रहणीदोचिकित्सितम् ® इत्युक्तवन्तमाचार्य शिष्यस्त्विदमचोदयत्। रसाद रक्तं प्रविशतः कथं देहेऽभिजायते ॥ रसस्य च न रागोऽस्ति स कथं याति रक्तताम् । द्रवाद रक्तात् स्थिरं मांसं कथं तज्जायते नृणाम् ॥ द्रवधातोः स्थिरान्मांसान्मेदसः सम्भवः कथम् । श्लक्षणाभ्यां मांसमेदोभ्यां खरत्वं कथमस्थिषु ॥ खरेष्वस्थिषु मज्जा च केन स्निग्धो मृदुस्तथा। मजज्ञस्तु परिणामेन यदि शुक्र प्रवर्तते ॥ गङ्गाधरः-कथमेवं स्यात् तत्र चाह-अत्र केचित् पठन्ति ; इत्युक्तवन्तः माचार्यमित्यादि प्रश्नोत्तरे। आयुर्वर्णो बलमित्यादातदन्तमुक्तवन्तमाचार्य. मात्रयं शिष्योऽग्निवेश इदमचोदयत् । किमित्यत आह-रसादित्यादि। देहे रक्तं प्रविशतो रसाद् रक्तं कथमभिजायते ; यतो रसस्य न रागोऽस्ति, स रसः कथ रक्ततां यातीत्येकः प्रश्नः। रसजाद रक्ताद द्रवात् स्थिरं तन्मांसं कथं नृणां जायत इति द्वितीयः। रसाज्जाताद् रक्ताज्जातान्मांसात् स्थिरात् कथं द्रवस्य मेदसः सम्भवः। श्लक्ष्णाम्भां मांसदोभ्यां जातेष्वस्थिषु कथं खरत्वं जायते। अस्थिषु च खरेषु केन प्रकारेण स्निग्धो मृदुश्च मज्जा जला एवं मासेन रसः शुक्रीभवतीति ज्ञेयम्। एतत्पक्षद्वयमपि केचिदित्यादिना दर्शयति । खमतमाह-सन्तत्येत्यादि। भोज्ये उपयुक्ते सति धातूनां रसादीनां चक्रवत्परिवृत्तिर्भवति । अविश्रान्ता समुत्पत्तिर्धातूनां भवति । तत दृष्टान्तेन तु परिवृत्तिकालानियमं दशयति । यथा चक्रं पानीयोद्धरणार्थं नियुक्तः वाह्यमानं बाहुबलप्रकर्षात् कदाचिदाश्वेव परिवर्त्तते कदाचित् वाह, बलाप्रकर्षात् धिरेण एवं धातवोऽपि अग्न्यादिसौष्ठवात् शीघ्रमेव परिवर्तन्ते अग्न्यादिवैगुण्ये चिरेण वर्तन्ते इति । एवं सुश्रुतेनापि “स शब्दाच्चि जलसन्तानवत् अणुना विशेषेणानुधावत्येव शरीरं केवलम् ।" इति । अत्र कृष्णात्येण रसपरिणामोऽपि अग्न्यादिभेदेन प्रकृष्टाप्रकृष्टकालज उक्त एव । सहि जलसन्तानदृष्टान्तेन चिरेण मासपर्यन्तेन शुक्रतोत्पत्तिः रसस्योक्ता। शब्दसन्तानदृष्टान्तेन नातिशीघ्र नातिचिराच्च शुक्रोत्पत्तिरुक्ता। अचि सन्तानदृष्टान्तेन तु चातिशीघ्र चातिचिराच! कोत्पत्तिर्भवति। तथान्यतापि उक्त केचिदाहुरहोरात्रात् षड् राबादपरे परे। मासेन याति सुक्रत्वमन्नं पाकक्रमादिति । तदेतत् सकलं चक्रदृष्टान्तेन गृहीतं ज्ञेयम् ॥ १३॥ त्यक्तवन्तमित्यादि-स्थलान्निम्नमिवोदकम्" इत्यन्तसाईवयोदशश्लोकानां चक्रपाणिकता रीका मृगितापि न मिलिता। अतः पाठोऽयं चक्रपाणिसम्मतो न वेति चिन्तनीयम्। For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy