________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५श अध्यायः चिकित्सितस्थानम् ।
२६२३ परस्परोपसंस्तम्भाद् धत्तो देहे परस्परम् । वृष्यादीनां प्रभावस्तु पुष्णाति बलमाशु हि ॥ षड्भिः केचिदहोरात्ररिच्छन्ति परिवर्तनम् ।
सन्तत्या भोज्यधातूनां परिवृत्तिस्तु चक्रवत् ॥ १३ ॥ एवाविगर्हतः पाकादेव भवतः। तौ प्रसादकिटौ धातू यतः परस्परोपसंस्तम्भात् दहे परस्परं धत्त इति। एषां प्रसादजधातूनां परिवर्तनकालमाह-वृष्यादीनामित्यादि। वृष्यद्रव्याणामौजस्यद्रव्यादीनाञ्च प्रभावस्वचिन्त्यक्रियाशक्तिराशु बलमोजः शुक्रं पुष्णाति विरेचनद्रव्यवत् । यथा विरेचनद्रव्यमाशु पुरीषपित्तकफादीन् विरेचयति, तथा वृष्यादिद्रव्यमाशु रसो भूखा क्रमेण रक्ता; दीनि भूखा शुक्रं विरेचयति । केचित् तु वृष्यावृष्यसर्चद्रव्याणां भुक्तानां पाकात् षभिः षभिरहोरात्रैः पञ्च पञ्च दिनानि क्रमेण पच्यमानात् रसादेः षष्ठे षष्ठ दिने परिवर्तनमिच्छन्ति ; तेन मासेन शुक्रातवं स्यात् । कथं परिवत्तनाजीवति ? सन्तत्येत्यादि। सन्तत्या भोज्यानां धातूनाश्च सन्तत्या चक्रवद् रसादीनां परिवृत्तिनं तु पूर्व पूर्वधातूनां परपरधातुरूपेण परिवत्तेने पूर्वपूर्वधातुक्षयान्मरणं स्यात् । भोज्यानां सातत्यात् यथा रसस्य रक्तरूपेण परिवत्तनं तथा भुक्तमन्नं पक रसं पोषयति। इत्येवं परपररूपेण परिवर्त्तने पूर्च: पूचधातुपुष्टिभवति ॥१३॥ क्रमेण प्रसादकिटौ भवत इत्यर्थः। संप्रति रक्तेन रसस्य पोषणं न क्रियते तथा मांसेनापि रक्तस्य इत्यादि परस्परं धातूनाम् उत्पादकत्वमाह-परस्परेत्यादि। धातुस्नेहपरम्परा परस्परोपस्तम्मति अन्योन्यमुपस्नेहेन संस्तम्भाच सन्तर्पितेति यावत्। वृष्यादिद्रष्याणां धातुपरम्पराक्रमेण शुक्रजननादिकार्य निषेधयन्नाह-वृष्यादीनामित्यादि। वृष्यादीनां क्षीरादिद्व्याणां प्रभावो बलं शीघ्र पुष्णाति । ततस्ते क्षीरादयः प्रभाधवर्द्धितबलाः शीघ्रमेवाग्नकार्य शुक्रजननादि कुर्वन्ति यथोक्तधातुक्रमेणेत्यर्थः। किंवा वृष्यादीनां प्रभावाच्छक्रायत्पत्तिः शीघ्र भवति। कियता कालेन धातुपरिवृत्तिर्भवति इत्याह-षड् भिरहोरात्रैः रसस्य शुक्ररूपतया परिवर्तनं भवतीति केचिदिच्छन्ति । तस्रोत्पन्नो रसः रक्तमैकेनाहोरात्रेणेति, एवं रसोत्पत्तिदिनं परित्यज्य षड़हेन शुक्रता भवति। यदा तु रसोत्पत्तिदिनमपि प्रक्षिप्यते तदा षड् भिर्दिनैरतिक्रान्तैः सप्तमे शुक्र. भावतया परिवर्तनं भवतीति ज्ञेयम् । उक्तं हि पराशरे-आहारोपभोगदिनात् श्वः रसत्वं तृतीयेऽति रक्तत्वं चतुर्थेऽह्नि मांसता मेदस्वं पञ्चमे षष्ठे स्वस्थित्वं सप्तमे मजता अष्टमे शुक्रता नियमेन भवात , किञ्च रसधातोः शुक्रधातुरूपतया परिणमनं यत् तदपि षष्ठदिनं निवत्यैवेति । सुश्रते-स खल्वाप्यो रसः एकैकस्मिन् धातौ वीणि वीणि कलासहस्राण्यवतिष्ठते पञ्चदश च
For Private and Personal Use Only