________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
म अध्यायः
चिकित्सितस्थानम् । २२६४ ... भल्लातकतैलपात्र सपयस्क मधुकेन कल्केनानमात्रेण शतपाकं कुर्यात् । समानं पूर्वेण ॥ १४ ॥
इति भल्लातकतैलम् । भल्लातकनीरं भल्लातकक्षौद्र भल्लातकतैलमेवं गुड़भल्लातकं भल्लातकयूषो भल्लातकसर्भिल्लातकपललं भल्लाततः स्वरसादष्टभागेकभागं मधु संवत्सरातीतं तत्स्वरसाद द्विगुणं वत्सरातीतं गोघृतं तत्स्वरसे प्रक्षिप्य मिश्रीकृत्याद्यात्। भल्लातकमानं पूर्वयोगोक्तं दशकमारभ्य प्रत्यहमेकैकोत्कर्षेण त्रिंशद यावदेकैकापकर्पण पुनर्दशकं यावदिति सप्तचवारिंशता दिनैः सहस्रभल्लातकानि भवन्ति। तथा सहस्रभल्लातकस्ने हं क्रमेणोत्कर्षापकर्षाभ्यां विभज्य नावन्ति दिनानि भक्षयेदिति। जीर्ण शालिपष्टिकाशनं सर्पिपा पयसेत्युपचार एकवारं प्रयोगान्ते द्विस्तावत् पयसैवोपचार इति। तत्प्रयोगात् तस्य निरुक्तस्य भल्लातकस्वरसमधघृतसमुदायात्मकस्य कुटी प्रविश्य प्रयोगात्। समानं पूर्वेण प्रथमयोगोक्तफलेन ॥१३॥ भल्लातकक्षौद्रम् ।।
गङ्गाधरः--योगान्तरमाह-भल्लातकतैलपात्रमित्यादि। पूर्वोक्तविधिना भल्लातकानां तैलं निष्पाद्य तस्य पात्रमादक द्रव्यद्वैगुष्यात् षोड़शशरावमितं कटाहे निधाय मन्दाग्निना तापयिखा निष्फेनं कृत्वावतार्य शीतीकृत्य सपयस्कं चतुगुणगव्यदुग्धमिश्रं मधुकेन यष्टिमधुकल्केनाक्षमात्रेण कर्षमात्रेण पचेत क्षीरक्षये तत्कल्कं गालयित्वा वस्त्रेण पुनरेवं पचेत। इत्येवं शतपाकं शतवाराः पाका यस्य तत् तथेति। एवं निष्पन्नस्य भल्लातकतैलपात्रस्य कुटी प्रविश्य यथानिदेहबलं प्रयोगः । जीर्णे सर्पिपा पयसा शालिपष्टिकाशनमेकवारम् इतापचारः। प्रयोगान्ते च पयसव तावद् द्विरशन मितापचारः। इति समानं पूर्वेण तत्प्रयोगाद् वर्षशतमजरं वयस्तिष्ठति श्रुतमवतिष्ठते इत्यादयः सर्वे पूर्वोक्ता अत्र भवन्ति ॥१४॥ भल्लातकतैलम् ॥
चक्रपाणि:-पिष्टस्वेदनं तत्, यत्रस्थं पिष्टकमुपस्वेद्यते, तदुपरि पिधानमात्रम् , तस्य सन्धिलेपो न कार्यः, अन्यथोपरिस्थस्य भल्लातकस्य तापाच्छिद्रात् स्नेहो नाधो याति । भल्लातकतैलमिति अनन्तरोक्तविधानेन गृहीतो भल्लातकस्नेहः ॥ १३ ॥ १४ ॥
चक्रपाणिः-भल्लातकसपिरित्यादयो दश प्रयोगाः, । अब च यथायोग्यतया भल्लातकसर्पिरादीनां संस्कारः संयोगश्च ज्ञेयः। यदुक्तं जतूकर्णे-"भल्लातकसंयुक्तसंस्कृतानि च घृतक्षारक्षौद्रगुडपिष्ट
For Private and Personal Use Only