SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२६८ | रसायनपाद २ चरक संहिता | पयसा शालिषष्टिकाशनमुपचारः, प्रयोगान्ते च द्विस्तावत् पयसेवोपचारः । तत्प्रयोगाद् वर्षशतमजरं वयस्तिष्ठतीति, समानं पूर्वेण ॥ १२ ॥ इति भल्लातकक्षीरम् । भल्लातकानां जर्जरीकृतानां पिष्टस्वेदनं पूरयित्वा भूमावाकण्ठं निखातस्य स्नेहभावगतस्य दृढ़स्योपरि कुम्भस्यारोप्योडुपेनापिधाय कृष्णमृत्तिकावलिप्तं गोमयाग्निभिः सम्यग्रुपस्वेदयेत् । तेषां यः स्वरसः कुम्भं प्रपद्यते, ततोऽष्टभागमधुसंप्रयुक्त द्विगुणघृतमद्यात् । तत्प्रयोगाद् वर्षशतमजरं वयस्तिष्ठति, सर्व्व समानं पूर्वेण ॥ १३ ॥ इति भल्लातकक्षौद्रम् । पयसा शालिषष्टिकाशनमिति । सहस्रभल्लातकप्रयोगान्ते पयसैव द्विवरं शालिषष्टिकाशनमित्येतावत् सप्तचत्वारिंशद्दिनानि दशभल्लातकावसानपय्र्यन्तं न त्वन्योपचारस्ततो यथेष्टमुपचारः । इति भल्लातकक्षीरम् । अस्याशिषमाह तत्प्रयोगादित्यादि स्पष्टम् ।। १२ ।। अपरयोगमाह-भल्लातकानामित्यादि । उक्तरूपाणां भल्लातकानां जर्जरीकृतानां सम्यक्कुट्टितानां पिष्टर वेदनं सच्छिद्रभाण्ड' पिष्टं भल्लातकविद्यते यत्र तत् पिष्टस्वेदनं, स्नेहभावगतस्य घृतादिरनेहेन चिरभावनया स्निग्धत्वम् आपन्नस्य उडुपेन मुखाच्छादन पात्रेण तथा च भूमौ गर्त्तं कृत्वा स्नेहभावित दृढं कुम्भमाकडं तत्र गर्ने निखातीकृत्य तद्भाण्डस्य मुखोपरि भाण्डान्तरं स्थापयित्वा तन्मध्ये तले च्छिद्रं कृत्वा तत्र च्छिन्नकेशगुच्छं मलम्वितं कृत्वा निवेश्य तत्र भाण्डे पूर्वयोगोक्तानुपहतादिगुणयुक्तप्रचुर भल्लातकानि सम्यक कुट्टयित्वा तानि निक्षिप्य पूरयित्वा आरोप्यो पेन तद्भाण्डमुखमपिधाय कृष्णमृत्तिका तक पूर्णभाण्डमवलिप्य गोमयानिभिश्चतुर्दिव उपस्वेदयेत । तेषां भल्लातकानां यः स्वरसस्तेनोपर वेदनेन स्नेहभावितं तलकुम्भं प्रपद्यते, प्रयोगस्याप्यन्यथा व्याख्यानेन त्रिंशत्कमात्रं प्रयोगमिच्छन्ति, तच्च व्याख्यानं नातिसङ्गतम्, किच सहस्रस्य ततोपयोगो विहितः, अब सहस्रपय्र्यन्तः प्रयोगः, तेन व्याधिविषयोऽन्य एव प्रयोगः, अयन्तु रसायनविषयः ॥ १२ ॥ For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy