________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
इम अध्यायः चिकित्सितस्थानम्।
२२६७ सर्पिषान्तर्मुखमभ्यज्य। तान्येकैकभल्लातकोत्कर्षाएकर्षेण दश भल्लातकान्यात्रिंशत् प्रयोज्यानि। नातः परमुत्कर्षः प्रयोगविधानेनासहस्रपरो भल्लातकप्रयोगः। जीणे च सर्पिषा द्वितीयदिने त्वेकादश भल्लातकानि, तृतीयेऽह्नि द्वादश, चतुर्थे त्रयोदश, पञ्चमेऽह्नि चतुर्दश, षष्ठेऽह्नि पञ्चदश, सप्तमेऽह्नि षोड़शाष्टमेऽह्नि सप्तदश, नवमेऽह्नि त्वष्टादश दशमेऽह्नि एकोनविंशतिः, एकादशेऽह्नि विंशतिः, द्वादशेऽह्नि एकविंशतिः, त्रयोदशेऽह्नि द्वाविंशतिः, चतुईशेऽह्नि त्रयोविंशतिः, पञ्चदशेऽह्नि चतुर्विंशतिः, षोडशेऽह्नि पञ्चविंशतिः, सप्तदशेऽह्नि षड् विंशतिः, अष्टादशेऽह्नि सप्तविंशतिः, एकोनविंशेऽह्नि अष्टाविंशतिः, विंशेऽह्नि एकोनत्रिंशत्, एकविंशेऽह्नि त्रिंशत् । इति तानि भल्लातकगुड़कानि एकैकभल्लातकोत्कर्षेण आत्रिंशदभल्लातकानि त्रिंशद्भल्लातकपर्यन्तं प्रयोज्यानि, नातस्त्रिंशतः परमूर्द्ध मुत्को वृद्धिर्वास्ति । ततस्त्वपकर्षेण एकैकभल्लातकापकर्षेण आदश भल्लातकानि प्रयोज्यानि। इति । आशब्दस्योभयत्र योजना। भल्लातकानीत्यस्य पदस्य तानीत्यत्र दशेत्यत्र त्रिंशदित्यत्र च योजना। दशेत्यस्य तानीत्यत्रापकणेत्यत्र च योजना। तथा चापकर्षण द्वाविंशेऽह्नि त्रिंशत्, त्रयोविंशे चतुर्विशे पञ्चविंशे षड्विंशे सप्तविंशे च त्रिंशत्। अष्टाविंशेऽह्नि एकोन त्रिंशद्भल्लातकानि एकोनत्रिशेऽष्टाविंशतिः । त्रिंशेऽति सप्तविंशतिः, एकत्रिंशाहे षड्विंशतिः, द्वारशाहे पञ्चविंशतिः, त्रयस्त्रिंशाहे चतुर्विंशतिः, चतुस्त्रिंशाहे त्रयोविंशतिः, पञ्चत्रिंशाहे द्वाविंशतिः, षट्त्रिंशाहे एकविंशतिः, सप्तत्रिंशाहे विंशतिः, अष्टत्रिशाहे एकोनविंशतिः, एकोनचत्वारिंशाहेऽष्टादश, चत्वारिंशाहे सप्तदश, एक चत्वारिंशाहे पोड़श, द्वाचत्वारिंशाहे पञ्चदश, त्रयश्चत्वारिंशाहे चतुर्दश, चतुश्चत्वारिंशाहे त्रयोदश, पञ्चचत्वारिंशेऽह्नि द्वादश, षट्चत्वारिंशेऽह्नि एकादश, सप्तचत्वारिंशाहे दशैवमष्टचत्वारिंशेऽपि दशेत्युत्कर्षापकर्षाभ्यामेकीकरणे सहस्रभल्लातकानि भवन्ति। जीर्ण भल्लातककाथे एकवारं सर्पिषा गुगयुक्ते शरीरे च। मुखदाहपरिहारार्थ सर्पिपाऽन्तर्मुखमभ्यव्येति । नातः परमिति त्रिंशतः परेण प्रयोगो न भल्लातकस्य । सहस्रपरो भल्लातकप्रयोग इति उपयुक्तभल्लातकसंपूरणं यदा सहस्र पूर्यते तदैवोपरमः कर्त्तव्यः, सहस्रादर्जागपि च प्रयोगपरित्यागः प्रकृत्याद्यपेक्षया भवत्येव सहस्रसंख्यापूरणञ्चेहेकेन वर्द्धनहासक्रमेण भवति, तेन पुनर्वृ त्तया च त्रिंशत्पर्य्यन्तम्, तदा हि भल्लातकप्रयोगेऽभ्यासेन चास्य सहस्रसंख्यापूरणं भवति, अनया रीत्या परित्यागः कर्त्तव्यः । अन्ये त्वत सुश्रुते अर्शश्चिकित्सितोक्तशतपर्यन्तं भल्लातकप्रयोगेण समं विरोधं पश्यन्तः सुश्रुत
For Private and Personal Use Only