________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
| रसायनपाद २
२२६६
चरक संहिता | आदकम् आढ़कमुदकस्याहोरात्रं स्थितं मृदितपूतं स्वरसवत् प्रयोज्यम् ॥ ११ ॥
भल्लातकान्यनुयहतान्यनामयान्यापूर्ण-रस-प्रमाण-वीर्य्याणि पक्कजाम्बवप्रकाशानि शुचौ शुक्र वा मासे संगृह्य यवपल्वे मारल्वे वा निधापयेत् । तानि चतुर्मासस्थितानि सहसि सहस्ये वा मासे प्रयोक्तमारभेत शीतस्निग्धमधुरोपस्कृतशरीरः पूर्वं दश भल्लातकानि आयोध्याष्टगुणेनाम्भसा साधु साधयेत् । तेषां रसमष्टभागावशेषं पूतं सत्यस्कं त्ि षोड़शशरावमेकी कृत्याहोरात्रं स्थितं प्रातः पुनर्मृदितं मतिं कृत्वा पूतं वस्त्रेण गालितं यद्भवति तत् स्वरसवत् प्रयोज्यम् | संवत्सरप्रयोगे कर्त्तव्ये षोड़शशरावे पीते पुनरेवंरूपेण स्वरसो विधिवत् संवत्सरं पूर्यते । एवमन्यत्रापि स्वरसाभावे विधिः बोध्यः ॥ ११ ॥ इति दश योगाः ।
श्लक्ष्णकुट्टितानामाढकमष्टशरावमुदकस्याढकं
गङ्गाधरः- योगान्तरमाह - भल्लातकेत्यादि । शुचौ मासे आषाढ़े मासे शुक्रे वा ज्येष्ठे मासे यवपल्वे यवानां राशौ मापपल्वे वा माषाणां राशौ वा निधापयेत् । तानि भल्लातकानि यथोक्तरूपाणि यवपल्वे मापपल्वे वा चतु
स्थितानि ज्येष्ठे स्थापितानि भाद्रान्ते आश्विने आपाढे स्थापितानि कार्त्तिके वा उद्धत्य रक्षेत् । ततः आश्विनोद्धतानि भल्लातकानि सहसि मार्गशीर्ष मास कार्त्तिकोद्धृतानि सहस्ये पौष मासे प्रयोक्तुमारभेत । ननु केन प्रकारेण प्रयोगं कुर्यादित्यत आह- शीतेत्यादि । मार्गशीर्ष पौषयोः कालस्वभावशीतेन तत्कालोचिताचरणीयस्निग्धमधुराहारेण चोपरकृतशरीरः पुमान पूर्व्वं दश भल्लातकगुड़कान आपोथ्य कुट्टयित्वा तत्तुल्या घृतमानेनाष्टगुणजलेन मन्दाग्निना साधयेत । तेषामष्टभागावशेषं रसं प्रतं वस्त्रेण गालितं सपयस्कं समानगोदुग्धेन मिलितं कृत्वा पिपासुर्मखमन्तः सर्पिषाभ्यज्य पिवेत् । इति नागबलात् तेषामपि प्रयोगः । बलादीनां स्वरसेनैव विधानम् । नागबलावद भोजनादिकं ज्ञेयम् । स्वरसालाभेऽनुकल्पमाह – स्वरसानामित्यादि ॥ ११ ॥
चक्रपाणिः - शुचिःज्यैष्ठः, शुक्रस्त्वाषाढ़ः, सहोऽग्रहायणः, सहस्यः पौषः, एतच्च भल्लातकं मासचतुष्टयस्थितं यवपल्वाद उद्धृतमात्रं न प्रयोज्यम्, किन्तु शीतल एव काले शीत
For Private and Personal Use Only