________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१म अध्यायः
चिकित्सितस्थानम् ।
२२६५
पयसा मधुसर्पिभ्यां संयोज्य भक्षयेत् । जीर्णे च शालिषष्टिकम् अश्नीयात् । संवत्सरप्रयोगादस्य वर्षशतमजरं वयस्तिष्ठति । सर्व्वं समानं पूर्वेण ॥ १० ॥
Acharya Shri Kailassagarsuri Gyanmandir
इति नागवलारसायनम् । बलातिबलाचन्दनागुरु-धव तिनिसखदिर- शिंशपासनस्वरसाः पुनर्नवान्ताश्चषधयो दश ये वयःस्थापना व्याख्याताः तेषां + स्वरसा नागबलावत्। स्वरसानामलाभे त्वयं स्वरसविधिश्चूर्णानाम् इति योगान्तरम् । मधुसर्पिभ्वी वत्सरातीताभ्यां संयोज्य गुड़ीकृत्य पलमानेन वा तानि चूर्णीकृतानि भक्षयेत् । इति योगान्तरम् । जीर्णे चोषधे शालिषष्टिकं गोपयसानीयात् । कुटीप्रवेशादिकं पूर्ववत् ॥ ११ ॥
इति नागवला रसायनं योगत्रयम् । गङ्गाधरः - योगान्तरमाह बलातिबलेत्यादि । बला पीतपुष्पवाट्यालकम् । अतिबला श्वेतपुष्पवाट्यालकम् । चन्दनं रक्तचन्दनम् । अगुरु कृष्णागुरु । धवः स्वनामको वृक्षः ओ इति लोके । तिनिसः नेमिः आवलुश् इति लोके । खदिरः श्वेतखदिरः । त्रिंशपा शिशु इति रूपातः । असनः पीतशालः । एषां स्वरसाः । मूलायङ्गानि किञ्चिज्जलं दत्त्वा क्षोदयित्वा वस्त्रेण गालयित्वा ग्राह्याः । स्वरसाभावे विधिर्वक्ष्यते । पुनर्नवान्ता अर्थात् पुनर्नवास्वरसान्ता दश चौषधयः | अमृतेत्यादयो दश वयःस्थापनगणः । नागवलावत् नागबलामूलप्रयोगे ये प्रकारास्ते चात्र जीर्ण शालिषष्टिकाशनः संवत्सर प्रयोगाजर वर्षशतवयः स्थितिरूपा भावा व्याख्यातास्तद्वत् व्याख्याता इत्यर्थः । तेन अमृतादिपुनवान्तानां वयःस्थापनानां दशानां बलायसनान्तानां नवानामित्ये कोनविंशतेः अन्यतमस्वरसं पलमात्रं प्रातः प्रातः प्रयोजयेत् । जीर्णे शालिषष्टिकम श्रीयात् । संवत्सरप्रयोगादस्य वर्षशतमजरं वयस्तिष्ठति । समानं पूर्वेण । गुणान्तरं श्रुतमवतिष्ठते सव्वामयाः प्रशाम्यन्तीत्यादि पूर्वोक्तं बोध्यम् । इत्येते एकोनविंशतियोगाः । स्वरसानामलाभे विधिमाह--स्वरसानामित्यादि । चूर्णानां
चक्रपाणिः - पुनर्नवान्ता दश पड़ विरेचनशताश्रितीये, “अमृताभया घाली मुक्ता श्रेयसी ताऽतिरसा मण्डूकपर्णी स्थिरा पुनर्नवा " इति सर्व्वा वयःस्थापनक्ताः नागबलया व्याख्याता * क्षीरसर्पिर्भनाम् इत्यधिकः पाठो कचिद् दृश्यते ।
+ ये वयःस्थापना व्याख्यातास्तेषां स्वरसा नागबलावत् इत्यत्र नागबलया व्याख्याता इति ग्रन्थान्तरे पाठः ।
For Private and Personal Use Only