________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
(रसायनपाद २
२२६४ चरक-संहिता। वल्मीकश्मशानचैत्योषररसवर्जिते देशे यथर्नुसुखपवनसलिलादित्यसेविते. जातान्यनुपहतान्यनध्यारूढान्यबालान्यजीर्णानि अविगतवीर्याणि शीर्णपुराणपर्णान्यसंजातफलानि ® तपसि तपस्ये वा मासि शुचिः प्रयतः कृतदेवार्चनः स्वस्ति वाचयित्वा द्विजातीन् बले. मुहूर्ते नागबलामूलान्युद्धरेत्। तेषां सुप्रक्षालितानां त्वपिण्डमानमात्रमचमात्रं वा श्लक्ष्णपिष्टम् आलोड्य पयसा प्रातःप्रातः प्रयोजयेच्चूर्णीकृतानि वा पिबेत्
ऊपररसः क्षाररसः। यथत्तुसुरवं शीताद्यतुगुणविपरीतगुणैः पवनादिभिः सेवितं च। जातानि नागवलामूलानि यान्यनुपहतानि कीटादिभिर्न व्यापन्नानि अनध्यारूढानि मूलान्तरं यानि नारूढानि अबालानि नाभिनवानि अजीर्णानि नातिपुरातनानि अविगतवीर्याणि शुष्कखादिदोषेण विगतवीय॑भिन्नानि शीर्णपुराणपर्णानि विगलितपुराणपत्रवृक्षसम्बन्धीनि, एतेन वसन्ते पत्रपतनान्तरकालः ख्यापितः। असंजातफलानि अजातफलतद्वक्षसम्बन्धीनि नागवलामूलानि गोरक्षतण्डुलनामकक्षस्य मूलानि, तपसि माघे मासि तपस्ये फाल्गुने वा मासि सति गलितपर्णत्वे भिषक् शुचिः प्रयतः संयतः सन् कृतगणेशादिदेवाच्चैनः द्विजातीन् ब्राह्मणान् स्वस्ति वाचयित्वा बले बलवति मुहूर्ते उद्धरेत् । तेषां तथाविधानां तथोद्धतानां नागवलामूलानां सुप्रक्षालितानां मध्यस्थकाष्ठं हित्वा खचं गृहीखा तत्त्वचः आम्रमानं पलमात्रं पयसा श्लक्ष्णपिष्टमतिमूक्ष्मचिक्कणरूपेण पिष्टा पिण्डं पिण्डिताकारं गोपयसैवालोड्य प्रत्यहं प्रातःप्रातश्चतुर्दण्डाभ्यन्तरे प्रयोजयेत् निह तदोषं यथोक्तकुटी प्रवेश्य पाययेत् । चर्णीकृतानि वा श्लक्ष्णचर्णानि कृखा वा पलमात्रं चतुर्गुणेन पयसा पिबेत्
' चक्रपाणिः- धन्वनीति जाङ्गलदेशे । कर्षणं हलादिना । अनध्यारूढानीति न महता पार्श्वस्थेन वृक्षेणाक्रान्तानि । तपसि माघे। तपस्य इति फाल्गुने । बले सुमुहूर्त इति ऐन्द्र मुहत्तै । आम्रमात्रमिति पलपरिमाणम् ॥ ९॥१०॥
.: * असञ्जातान्यपर्णानि इति वा पाठः।
For Private and Personal Use Only