SearchBrowseAboutContactDonate
Page Preview
Page 64
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १म अध्यायः ] २२६३ चिकित्सितस्थानम् । तानि सुखिन्नशीतानुद्धृतकुल कान्यापोथ्यादकेन पिप्पलीचूर्णानामाढकेन च विङ्गतण्डुलचूर्णानामध्यद्धेन चाढकेन शर्कराया द्वाभ्यां द्वाभ्यामादुकाभ्यां तैलस्य मधुनः सर्पिषश्च संयोज्य शुचौ दृढ़ घृतभाविते कुम्भे स्थापयेदेकविंशतिरात्रम् । अत ऊर्द्ध प्रयोगः । अस्य प्रयोगाद वर्षशतमजरं वयः तिष्ठति । समं पूर्वेण ॥ ६ ॥ इत्यासलकावलेहोऽपरः । धन्वनि कुशास्ती स्त्रिग्धमधुर कृष्णमृत्तिके सुवर्णवर्णमृत्तिके वा व्यपगतविपश्वापदपवनसलिलाग्निदोषे कर्षण सविधानां मुखाच्छादनसहितां निर्माय यथा वाष्पं नोपप्रसरेत्, तस्यां द्रोण्यां तत् सहस्रमामलकानि निधाय वाष्पं यथा नोपसृजेत् तथा तेन पिधानेन सुखमपिधाय आरण्यकरीषाग्रिना उपस्वेदयेत् स्विन्नानि कारयेत् । ततस्तानि सहस्रमामलकानि सुखिन्नानि भवन्ति स्वाङ्गशीतानि यदा स्युस्तदा उद्धत - कुलकानि निष्कुलानि अस्थिसिरारहितानि कृत्वा आपोथ्य कुट्टयित्वा तावन्ति गृहीला पिप्पलीतण्डुलचूर्णानामाढकमष्टशरावं विङ्गतण्डुलचूर्णानामाढ़ कमष्टशरावं शर्कराया अध्यर्द्वादक द्वादशशरावं तैलस्यानतीतवत्सरस्याढकद्वयं द्वात्रिंशच्छरावम् वत्सरातीतस्य मधुनश्वाढकद्वयं द्वात्रिंशच्च रात्रं सर्पिपश्च वत्सरातीतस्यादकद्वयं द्वात्रिंशच्छरावमिति द्वात्रिंशच्छ रावमिति पभिस्तैलमधुसर्पिषामाद कैः संयोज्य शुचौ घृतभाजने एकविंशतिरात्रं स्थापयेत् । यद्यपि न चोक्त ऋतुविशेषस्तथापि पूर्व्वस्य योगस्यानन्तरत्वोक्त्या प्रावृष्येव एकविंशतिरात्रं न चात्र भस्मराशाविति योज्यम् । कश्चिदृतुविशेषं नाह सर्व्वतविकैकविंशतिरात्रं स्थापयेदिति व्याचष्टे, अत एकविंशतिरात्रादृद्ध' यथानिवतोऽस्य प्रयोगः | सात्म्याशी कुप्रविश्य खादेदित्यर्थः । इति सप्तमो योगः ॥ ९ ॥ For Private and Personal Use Only - गङ्गाधरः- योगान्तरमाह धन्वनीत्यादि । धन्वनि देशे जाङ्गले देशे । देशोऽल्पवारिद्र्वनो जाङ्गलः परिकीर्त्तित इति । कीदृशे धन्वनि देशे ? कुशास्तीर्णे कुशैर्व्याप्ते स्निग्धादिमृत्तिकायुक्ते च व्यपगतविषादिदोषे च कर्षणादिवर्जिते च । २८८
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy