SearchBrowseAboutContactDonate
Page Preview
Page 63
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२६२ चरक संहिता | ( रसायनपाद २ निदध्यात् तद्वर्षान्ते सात्म्यपथ्याशी प्रयोजयेत् । अस्य प्रयोगाद् वर्षशतमजर मायस्तिष्ठतीति, समानं पूर्वेण ॥ ७ ॥ इति आमलकचूर्णम् । विडङ्गतण्डुलचूर्णानामाढकं पिप्पलीतण्डुलानामध्यर्द्धाढकं सितोपलायाः सर्पिस्तैलमध्वादकः पड़ भिरेकीकृतं घृतभाजनस्थं प्रावृषि भस्मराशाविति सव्र्व्वं समानं पूर्वेण यावदाशीः ॥ ८॥ यथोक्त गुणानामामलकानां सहस्रमार्द्रा पलाशद्रोण्यां सपि - धानायां वाष्पम् अनुद्वमन्त्या मारण्य गोमयाग्निभिरुपस्वेदयेत् । स्थापयेत् । तच्चूण वर्षान्ते प्रादृट्कालातीते न तु संवत्सरातीते । सात्म्यपथ्याशी कुटीं प्रविश्य यथाग्निवलं मात्रां प्रयोजयेत् । जीर्ण सात्म्यमाहारम् आहरेत् । आशीः समानं पूर्वेण पूर्व्वयोगेण । इति पञ्चमो योगः ॥ ७ ॥ गङ्गाधरः- योगान्तरमाह - विङ्गेत्यादि । विडङ्गानि उदूखले किञ्चिदाहत्य तण्डुलान कृला चूर्णयेत् तच्चर्णानामाढकं शरावाष्टकम् । पिप्पलीतण्डुलचूर्णस्य चाढकमष्टशरावम् । सितोपलाया अध्यर्द्धाढकं सार्द्धाढकं द्वादशशरावम् । सर्पिषः संवत्सरातीतस्याढ़कद्वयं द्वात्रिंशच्छरावं वत्सरानतीतस्य तिलतैलस्य द्वात्रिंशच्छरावं वत्सरातीतस्य मधुनश्च द्वात्रिंशच्छरावं द्रवत्वेन द्वैगुण्यादिति सर्पिस्तैलमधूनां मिलिला पड़ भिराड़ कैरेकी कृतं विङ्गतण्डुलचूर्णादित्रयं घृतभाजनस्थं कृत्वा प्राकृषि आषाढ श्रावण - श्रावण भाद्रान्यतरै कस्मिन्नृतौ मासद्वयं भस्मराशौ निदध्यात् । प्राष्टड़न्ते सात्म्यपथ्याशी कुटीं प्रविश्य यथाग्निवलं प्रयोजयेत् । इत्यादि पूर्वेण पूर्व्वयोगेण समानं वर्षशतमायुरजरं तिष्ठतीत्यादिकं यावत्फलं तुल्यमिति षष्ठो योगः ॥ ८ ॥ गङ्गाधरः- योगान्तरमाह – यथोक्तगुणानामित्यादि । आमलकानां सहस्र गुड़कसहस्रम् | आईपलाशद्रोण्याम् अशुष्कपलाशवृक्षकाष्ठमय द्रोणीं चक्रपाणिः - वर्षान्ते वर्षाकालान्ते । यावदाशीरिति आशीः फलश्रुतिः । तेन 'तवर्षाते' इत्यादिग्रन्थयोगविधानं समानं पूर्वेणेति पूर्व्वयोगफलश्रुतिपर्यन्तं पूर्व्वयोगेण समानमित्यर्थः ॥७१८ * आदकम् इत्यधिकः पाठः क्वचित् । For Private and Personal Use Only
SR No.020147
Book TitleCharak Samhita Part 03
Original Sutra AuthorN/A
AuthorMuni Charak, Narendranath Sengupte, Balaichandra Sengupte
PublisherRanglal Mitra
Publication Year
Total Pages1601
LanguageSanskrit
ClassificationBook_Devnagari
File Size38 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy