________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
[ रसायनपाद २
२३०० चरक-संहिता। तकसक्तवो भल्लातकलवणं भल्लातकतर्पणमिति भल्लातकविधानमुक्तम् ॥ १५॥
इति भल्लातकविधिः ।
भवन्ति चात्र। भल्लातकानि तीक्ष्णानि पाकीन्यग्निसमानि च। भवन्त्यमृतकल्पानि प्रयुक्तानि यथाविधि ॥ एते दशविधास्तेषां प्रयोगाः परिकीर्तिताः । रोगप्रकृतिसात्म्यज्ञस्तान् प्रयोगान् प्रकल्पयेत् ॥ कफजो न स रोगोऽस्ति न विबन्धोऽस्ति कश्चन । यं न भल्लातकं हन्याच्छी, मेधाग्निवर्द्धनम् ॥ प्राणकामाः पुरा जीर्णाश्च्यवनाद्या महर्षयः । रसायनैः शिवरेतैर्बभूवुरमितायुषः॥ ज्ञानं तपो ब्रह्मचर्य्यमध्यात्मं ध्यानमेव च।। दीर्घायुषो यथाकामं संभृत्य त्रिदिवं गताः॥ तस्मादायुःप्रकर्षार्थं प्राणकामैः सुखार्थिभिः । रसायनविधिः सेव्यो विधिवत् सुसमाहितैः॥१६॥
गङ्गाधरः-भल्लातकयोगमुपसंहरति-भल्लातकक्षीरमित्यादि स्पष्टम् ॥१५॥
गङ्गाधरः-भल्लातकानां प्रभावमाह-भवन्ति चात्रेत्यादि। एते दशविधा भल्लातकक्षीरमित्यादय उक्ताः। न विवन्धोऽस्तीति मूत्रपुरीषादीनां कश्चन विबन्धो नास्ति। अत्र पुरावृत्तमाह-प्राणकामा इत्यादि। जीर्णा जरायुक्ताः यूपतैलसक्तुलवणतर्पणानि" इति। एवञ्ज सपि क्षीरयूषतैलानां संस्कारो यथान्यायं भल्लातकेन, क्षौद्रपललसक्तुतर्पणनतां भल्लातकेन योगः । गुडलवणयोस्तु संस्कारः संयोगो वा तैले । लबणसंस्कारपक्षे हि लवणसमं भल्लातकमन्तद्ध मदग्धं ग्राह्यम् । अन्ये तु सर्पिरादीनां सर्वेषामेव भल्लातकेन संस्कारं व्याख्यानयन्ति । इह सक्तुप्रयोगो द्रवोत्तरत्वादिविशेषेण कर्मणा भेदनीयः ॥ १५॥
चक्रपाणिः- अग्निसमानीति दाहस्फोटकर्तृतया। संभृत्येति निष्पाद्य । पादानुसंग्रहे सप्तत्रिंशत्
For Private and Personal Use Only