________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६१६
चरक-संहिता। [ग्रहणीदोषचिकित्सितम् परन्तु पच्यमानस्य विदग्धस्याम्लभावतः। आशयाचावमानस्य पित्तमच्छमुदीर्यते ॥ पक्काशयन्तु प्राप्तस्य शोष्यमाणस्य वह्रिना।
परिपिण्डितपक्वस्य वायुः स्यात् कटुभावतः ॥७॥ यः फेनभाव उदीर्यते स कफो नाम मलः। परं तदुत्तरकालं पच्यमानस्य तस्य षड़सस्यानस्य विदग्धस्यार्द्ध परिपकस्याम्लभावो भवति । आशयादामशयात् च्यवमानस्य तस्याम्लीभूतस्यान्नस्य यत् स्वच्छं निर्मलरूपमुदीय्यते तत् पित्तं नाम मलम्। पकाशयं प्राप्तस्य वह्निना शोष्यमाणस्य परिपिण्डितपकस्य तस्य पड़ सस्यानस्य कटुभावो भवति तस्मात् कटुभावाद वायुर्नाम मलः स्यात् ॥७॥ आद्यमधरपाकानन्तरं विदग्धस्येति पक्कापक्कस्य । अम्लभावतः इति जाताम्लस्वरूपतः । आशयादामाशयात् च्यवमानस्य अधोभागं वायुना नीयमानस्य, अनेन च पित्तस्थानसम्बन्ध विदग्धाहारस्य दर्शयति। अच्छमित्यवनम् । उदीर्यते इति पित्तमुदीर्यते। अम्लञ्च पित्तम् अम्लभावादाहारस्य उत्पद्यत इति युक्तमेव । पक्वाशयन्तु प्राप्तस्येति च मलरूपतया पक्काशयं गतस्य, शोष्यमाणस्य च वह्निनेति यद्यपि ऊर्द्ध दाहक्षमो वह्निः, तथाप्यधागतस्यापि वह्निना शोष्यमाणत्वं पक्वाशयगतस्याप्युपपन्नम्। यतश्चाधोगमने सम्यक् वहिव्यापारो नास्ति अतः पच्यमानस्येति पदं परित्यज्य शाष्यमाणस्येति कृतम्। परिपिण्डितपक्कस्येति परिपिण्डितं. रूपतया मलरूपतया पक्वस्य । वायुः स्यात् कटुभावत इति परिपिण्डितावस्थोद्भूतकटता वायोरुत्पद्यते । एवमीदृशः षड़ रसाहारस्यावस्थापाको भवति । उक्तं मधुरादीनां कफादिकत्वम् । कटुतिक्तकषायाणां विपाकः प्रायशः कटुः इत्यादिना च यः पाक उच्यते, सोऽवस्थापाकेन च बाधितत्वात्। मैवं, न ह्यवस्थापाकः स्वभावं बाधते, किन्त्ववस्थायां स्वकार्य करोति। तेन रसादयोऽपि स्वकार्य कुर्वन्ति। अवस्थापाकोऽपि स्वयं कार्य करोति। यथा मधुरतिक्तादिपरसेऽन्ने उपयुक्त मधुरोऽपि स्वकार्य करोति, तिक्तादयः स्वकार्य कुर्चन्ति, अयन्तु विशेषः यदावस्थापाकस्य मधुरादयः इलेग्मजनका रसा अन्नगुणा भवन्ति, तदा श्लेष्माणं जनयन्ति। यदा तु अवस्थापाकः विपरीतकटुकादिपरिगृहीतो भवति, तदा स्तोकमात्रं कर्फ जनयति । एवं पित्तजनक अवस्थापाकेऽपि वाच्यम् । त्रिधा विपाकस्तु रसमलविवेकसमकाले एवावस्थापाकैः समं भवति। कालोऽपि अवस्थापाककार्य्यदोषानुगुणतया अवस्थापाकाहितदोषाणां वर्द्धनं क्षपणच करोतीति तस्याभिधानं शास्त्र प्रयोजनवदेव। यद्यपि वा सर्वमन्नम् अवस्थायां विदह्यते तथापि तेऽत्यर्थ विदाहित्वात् विदाहिन इत्युच्यन्ते विशेषविदाहकत्वात् । न्ये त्वाहुः न पड़.रसादपि अनुसामान्येनावस्थापाके कफायत्पत्तिः, किन्तु पड़ रसादनात्
For Private and Personal Use Only