________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५श अध्यायः] चिकित्सितस्थानम् ।
२६१५ समानेनावधूतोऽग्निरुदीर्यः पवनेन तु । काले भुक्तं समं सम्यक् पचत्यायुर्विवृद्धये ॥५॥ एवं रसमलायान्नमाशयस्थमधास्थितः। पचत्यग्निर्यथा स्थाल्यामोदनायाम्बुतण्डुलम् ॥ ६ ॥ अन्नस्य भुक्तमात्रस्य षड्सस्य प्रपाकतः ।
मधुराख्यात् + कफो भावात् फेनभाव उदीर्यते ॥ क्लेदकश्लेष्मस्नेहांशेन मृदुतां गतं समानेन पवनेन नाभेवोमपाश्वस्थो जाठरोऽग्निः समीपस्थेनावधूतोऽवकम्पितः सन्नुदीर्णो भूखा समं सम्यक पचत्यायुर्विद्धये न तु विषमं पचति ॥५॥
गङ्गाधरः-पाकप्रकारमाह-एवमित्यादि। एवमनेन प्रकारेणामाशयस्थमन्नं तदधःस्थितो जाठरोऽग्निर्यथा स्थाल्यामम्बुतण्डुलमधःस्थितोऽग्निरोदनाय पचति तथा रसमलाय पचति ॥६॥
गङ्गाधरः-कथं रसाय मलाय वा पचतीत्यत आह-अन्नस्येत्यादि। षड़सस्यान्नस्य भुक्तमात्रस्य प्रपाकतः पाकारम्भात् मधुराख्यात् भावात् सङ्घातमित्यवयवशैथिल्यमापन्नम् । काले इति बुभुक्षाकाले । भुक्तं सममिति माताप्रकृत्यादिसमम् । समानेनावधूत इति अग्निपार्वस्थितेन समानेन संधुक्षितः। अयञ्च समानप्रकृतित्वात् वाह्यो वायुरिव अग्नेः संधुक्षणो भवति न वैषम्यकरः, विकृतस्तु वैषम्यं करोति । तेन वातेन विषमोऽग्निः भवतीति च उपपन्न भवति। एते च द्रवादयः पाचकस्याग्नेः सहाया भवन्ति इत्यनेन ग्रन्थेनोच्यते। आहारपरिणामकरा इमे भावा भवन्ति। तद् यथा-उष्मा वायुः क्लेदः स्नेहः कालः समयोगश्चेति। उदर्यः पाचक इत्यर्थः। पवनोद्वह इत्यग्निविशेषणं केचित् पठन्ति। सम्यगिति भुक्तविशेषणं केचित् पठन्ति, तदा सम्यगित्यनेन मातासाम्यमुच्यते। सम्यग्ग्रहणेन तु प्रकृत्यादिसम्पदुच्यते। आयुर्विवृद्धये इति शरीरेन्द्रियसत्त्वात्मसंयोगानुवर्तमाना रसादयः। तादर्थ्य चतुर्थी ॥ ५॥
चक्रपाणिः-आशयस्थमित्यामाशयस्थम्। अधः स्थित इत्यनेन अग्नेरूद्ध ज्वलनस्वभावतया अर्द्ध स्थानपाके सामर्थ्य सूचयति। अवार्थ यथेत्यादिना दृष्टान्तमाह। एवं स्थूलपाक्रम विधाय अवान्तरमनुपाकक्रममाह-अन्नस्येत्यादि। भुक्तमावस्य भुक्तानन्तरमेव । षड्रसस्येति प्राशस्त्यत्वेनाभिधानं किंवा पड़रसस्यापि प्रथमं मधुरता निरुक्ता भवतीति दर्शयति । प्रपाकत इति प्रथमपाकतः। प्रशब्दो रसादिकर्मणि । मधुरश्वासौ भाद्यश्चेति मधुराद्यः । किंवा मधुरात् प्राक कफोभावः इति पाठः। फेनभूत इति फेनसदृशो धन इत्यर्थः। • उदयः पवनोद्वहः इति चक्रसम्मतः पाठः ।
+ गधुराद्यात् इति चक।
For Private and Personal Use Only