________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६१४
चरक-संहिता। [ग्रहणीदोषचिकित्सितम् यदन्नं देहधात्वोजो-बलवर्णादिपोषकम् । तत्राग्निहेतुराहारान्न ह्यपक्काद रसादयः॥४॥ अन्नमादानका तु प्राणः कोष्ठं प्रकर्षति। तहवैर्भिन्नसंघातं स्नेहेन मृदुतां गतम् ॥
विकृते तु देहाग्नौ विषमे तीक्ष्णे मन्दे च रोगी स्यात् तस्मादग्निमूलमायुरादीनां कारणं निरुच्यते ॥३॥
गङ्गाधरः--यदन्नमित्यादि। यदन्नमभ्यवहृतं दहधाखादिपोषकं तदनपाके हेतुर्जाठराग्निः। कस्मात् ? आहारात् पक्काद् रसादयो जायन्ते न ह्यपकात् आहाराद् रसादयो धातवः स्युरिति ॥४॥
गङ्गाधरः-कथमभ्यवहतश्चान्नमग्निना पच्यत इत्यत आह–अनमित्यादि। प्राणो नाम हृदयस्थः शारीरो वायुरादानका पानाहारादिकमादत्ते। स तु अभ्यवह्रियमाणमन्नं कोष्ठमुदरं प्रकर्षति । द्विकर्मकः कृषिः, प्र आरम्भ। अभ्यवहियमाणमन्नं कोष्ठं कट मारभ्यमाणमपानोऽधस्तादपकर्षति। तेन द्वितीयारण्यकोक्तं न विरुध्यते। तत्र हुक्तम् । तदपानेनाजिघृक्षत तदा यत् । स एषोऽन्नस्य ग्रहो यद् वायुरन्नायुर्वा एष यद् वायुरिति। तत् काले भुक्तं कोष्ठगतमन्नं द्रवः क्लेदकश्लेष्मद्रवैर्भिन्नसंघातं द्रवीभूतं स्नेहेन तत् तस्मात् प्राशस्त्यात् अन्वयव्यतिरेकविधानात् आयुर्वर्णादीनाम् अग्निर्मूलं प्रधानं कारणमित्यर्थः । निरुच्यते इति निश्चयेनोच्यते ॥ १-३॥
चक्रपाणिः-सामान्यकारणमुक्त्वा अग्नेः साक्षात्कार्यकारणत्वं व्युत्पादयन्नाह-यदन्नमित्यादि। वाह्या अपि गैरिकादयो धातुशब्देनोच्यन्ते इति तद्वयवच्छेदार्थ धातोर्देहविशेषणम् । अथ अहोरात्रजन्येषु देहधात्वादिषु कथमग्नेः कारणत्वमित्याह-आहारादिति । एतेनाहारमप्यपेक्ष्यैव रसादीन् जनयति । आदिग्रहणेन रक्तादीनि संगृह्यन्ते ॥ ४ ॥
चक्रपाणिः-संप्रति संप्राप्तस्यान्नस्य अग्निना यथा पाको भवति यथा च पच्यमानम् अन्नं देहधात्वादिना रूपतामापद्यते तदाह- अन्नमित्यादि। मुखप्रवेशादन्नस्य व्याहार इहोच्यते । भादानम् आहारप्रणयनं कर्म यस्य स था। करतीति नयति । द्रवैरिति पानीयादिभिः । भिन्न
For Private and Personal Use Only