________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
पञ्चदशोऽध्यायः। अथातो ग्रहणोदोषचिकित्सितं व्याख्यास्यामः,
इतिह स्माह भगवानात्रेयः॥१॥ आयुवर्णो बलं स्वास्थ्यमुत्साहोपचयो प्रभा। ओजस्तेजोऽग्नयः प्राणाश्चोक्ता देहाग्निहेतुकाः॥२॥ शान्तेऽग्नौ म्रियते युक्त चिरं जीवत्यनामयः ।
रोगी स्याद् विकृते मूलमग्निस्तस्मान्निरुच्यते ॥३॥ गङ्गाधरः-अथोद्दिष्टानुक्रमादर्शोऽनन्तरं ग्रहणीदोषचिकित्सितमाह-अथात इत्यादि। पूर्ववद व्याख्येयम् ॥१॥ __ गङ्गाधरः-आयुरित्यादि। आयुरादय एकादश देहानिहेतुकाः। देहाग्निर्जाठराग्निर्हेतुयेषां ते। अनय इति धावग्नयः॥२॥
गङ्गाधरः-कुत एवं तत्राह-शान्ते इत्यादि। अग्नौ दहाग्नौ शान्ते नष्टे पुरुषो म्रियते। युक्ते समरूपे स्थिते अनामयः सन् पुमांश्चिरं जीवति,
चक्रपाणिः-अर्शःका त्वाद् ग्रहणीदोपस्य अर्शश्चिकित्सितमनु ग्रहणोचिकित्सितं ब्रूते। ग्रहणीम् आश्रितो दोषो ग्रहणीदोषः। एवञ्चाश्रयाश्रयिणोरभेदग्रहणाद ग्रहण्याश्रितोऽग्निदोषोऽपि गृह्यते। तत्र ग्रहणीदोषनिर्दिष्टाग्निदोपे वक्तव्ये प्रकृतिज्ञानान्तरत्वाद् विकृतिज्ञानस्य प्रथम तावदविकृतस्याग्ने रूपमाह-आयुरित्यादि। आयुश्चेतनानुवृत्तिः, वर्णो गौरादिः, बलं शक्तिः व्यायामशक्तिश्च । स्वास्थ्यशब्देनैव वर्णादिग्रहणं यद्यपि लभ्यते तथापि “स्यस्थस्यौजस्कर यत् तु तद रसायनमुच्यते" तेन वर्णादीनामविकारत्वम् अवश्यं सुस्थे भवतीति वर्णादीनां पृथगुपादानं कृतम्। उत्साहो दुष्करेष्वपि कार्येषु अध्यवसायः। उपचयो देहपुष्टिः। ओजो हृदयस्थं सर्वधातुसाररूपम्। तेजो देहोष्मा शुक्रवा। यदुक्तं शालाक्ये "दृष्टिस्तेजोमयी प्रोक्ता शुक्र तेजश्व केवलम् । तस्माद् दृष्टिबलापेक्षी तेजोवृद्धि समाचरेत्" इति। अग्नय इति भूताग्नयः पञ्च, धात्वग्नयः सप्त इति द्वादशाग्नयः। प्राणा इति प्राणापानोपलक्षिताः पश्चापि वायवः। किंवा प्राणाः इति शब्देन नित्यं बहुवचनान्तेनोच्यते यथाप्सर शब्देन एकापि विद्याधरी कीर्तवते। देहाग्निहेतुका इति देहपोषकप्रधानजाठराग्निकारकाः। शान्ते इत्युत्सन्ने। युक्ते इति समे। विकृत इति मन्दे विषमे तीक्ष्णे वा। मूलमग्निः तस्मादिति
For Private and Personal Use Only