________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१५ अध्यायः] चिकित्सितस्थानम्। २६१७
अन्नमिष्टं अपकृत-9-मिष्टैर्गन्धादिभिः पृथक् ।
देहे प्रीणाति गन्धादीन् प्राणादीनिन्द्रियाणि च ॥८॥ गङ्गाधरः-एवंप्रकारेण मलाय पाके जायमाने पाश्चभौतिकशारीरगुणानां यथा पुष्टयो भवन्ति तदाह–अन्नमित्यादि । इष्टैर्गन्धादिभिः गुणयुक्तमन्नमिष्टमुपकृतं भक्तं देहे पृथक् गन्धादीन् प्रीणयति, प्राणादीन् प्राणापानादीन् इन्द्रियाणि चक्षुरादीनि पृथक् प्रीणयतीति ॥८॥ प्रथमे पाके मधुरोऽयमनुपगतो रसः स कर्फ जनयति तथा द्वितीये अम्लरसः पित्तदोषं विदाहावस्थायाम्, उदभूतादम्लरसात् पित्तमुत्पद्यते । एवं वायुरपि आहारकटुतावस्थायां भवतीति। अन्ये त्याहुः यत् नान्नस्याग्निसंयोगात् मधुराद्यावस्थिकं भवति किन्तु कफादिस्थानेषु मनुष्याणां स्वभावादेव मधुरादयो रसास्तिष्ठन्ति । उक्तं हि तन्खान्तरे-मधुरो हृदयादूद्ध, रसः कोल्ड व्यवस्थितः। ततः संवर्द्रते श्लेष्मा शरीरबलवर्द्धनः। नाभीहृदयमध्ये च रसस्त्वम्लो व्यवस्थितः । खभावेन मनुष्याणां ततः पित्तं प्रवत्तते। अधो नाभ्यास्तु नन्वेकः कटुकोऽवस्थितो रसः । प्रायः श्रेष्ठतमस्तक्ष प्राणिनां वर्द्धतेऽनिलः। तस्माद् विपाकस्त्रिविधो रसानां नाल संशयः। इति । इह तु सखेत्यादिग्रन्थार्थालोचनया यथार्थ एव ग्रन्थार्थो न्याय्यः। तन्त्रान्तरे तु श्लेष्मपित्तगतमधुराम्लरसौ वर्णयन्ति, ते च कफाधिगता रसाः अस्माकमपि पाकसहकारितया अनुसता एव । यत् तु श्लेष्मजनकांशस्यैवावस्थापाके इलेष्मकर्तृत्वमित्युक्तं तदनुमतमेव । एवं श्लेष्मजनकोशः आहारगतो यः स स्थानमहिन्ना तदाहारस्य मधुरतामापद्य श्लेष्माणं जनयतीति विशेषेण अमः। यत् तु अनेनावस्थापाकेन कफपित्तयोः ईरणमात्रं करोति न तु वृद्धिम्, वृद्धिः कफस्यानु. पाके भवतीति वदन्ति, तदुपपत्तिशून्य भाति, किन्तु अवस्थापाकाच्च कफपित्तवृद्धि तथा रसरक्तपाकाच मलरूपतया उत्पादयति इति युक्तं पश्यामः ॥७॥
चक्रपाणिः-कान्तरेणापि अन्नस्य पाक: संपद्यते तमाह-अन्नमिति। अन्नम् इष्टम् उपहितमिति, हिशब्दोऽवधारणे, इष्टशब्देनेह प्रियं हितञ्चोच्यते न प्रियमासम्, अहितस्य प्रिय. मातस्य न देहव्यवस्थितिः गन्धादितर्पकत्वं भवति । उपहितमित्युपयुक्तम् । इन्टैरिति प्रियहितः गन्धरसरूपस्पर्शशब्दैः। अव यद्यपि हितत्वमेव गन्धादीनाम् आहारगतानां देहगतगन्धादि. पोषणे प्रधान तथापि प्रियत्वमपि आहारगतगन्धादीनां तदात्वोपकारकतया प्रहीतु प्रियस्वहित. स्वयोः द्वयोरपि उपादानं कर्तव्यम्। देहे प्रीणाति गन्धादीनिति देहश्रितान् गन्धादीन पोषयेत् इति। तथा घ्राणादीनि च घ्राणरूपरसस्पर्शनश्रोताणि इष्टैर्गन्धादिभिः प्रीणाति तर्पयति पोषयतीति यावत् । इन्द्रियाण्यपि हि पाञ्चभौतिकान्यसदर्शने तानि च प्रतिक्षणं भीयमाणानि ॥ ८॥
* अनमिष्ट हुपहितम् इति चक्रसग्मतः पाठः । + घ्राणादीनीन्द्रियाणि च इति पतः पाठः।
३६६
For Private and Personal Use Only