________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६१० चरक-संहिता।
अशश्चिकित्सितम त्रयो विकाराः प्रायेण ये परस्परहेतवः। अशांसि चातिसारश्च ग्रहणीदोष एव च ॥ एषामग्निबले हीने वृद्धिवृद्धे परिक्षयः। तस्मादग्निबलं रक्ष्यमेषु त्रिषु विशेषतः ॥१८॥ भृष्टैः शाकैर्यवागूभिर्मासरसैः शुभैः। दुग्धतक्रप्रयोगैश्च विविधर्मुदजान् जयेत् ॥ यद् वायोरानुलोम्याय यदग्निबलवृद्धये। अन्नपानौषधद्रव्यं तत् सेव्यं नित्यमर्शसः॥ यदतो विपरीतं स्यान्निदाने यच्च दर्शितम् । गुदजाभिपरीतेन तत् सेव्यं न कदाचन ॥ ६ ॥
असि व्यत्यासोऽम्लविपर्ययः। शीतनिदानजे शीतव्यत्यास उष्णो योजितः । उष्णनिदानजे व्यत्यास उष्णविपर्ययः। अग्निवलापेक्षी नित्यं योजितः। अशःकृतान् गदान् जयति। त्रयो विकारा इत्यादि। अर्शोऽतिसारग्रहणीदोषा इति त्रयो विकाराः प्रायेण परस्परहेतवः। अग्निबले हीने ह्येषां वृद्धिरग्निवले दृद्धे त्वेषां परिक्षयः स्याद यस्मात् तस्मादेषु त्रिषु विशेषतोऽग्निबलं रक्ष्यमिति ॥९८॥ __ गङ्गाधरः-तत्रार्थोऽधिकारादाह-भृष्टरित्यादि। स्विन्नपीडितरसबहुस्नेहे भृष्टैः शार्केरिति । यद्वायोरित्यादि। यदन्नपानौषधद्रव्यं वायोरानुलोम्याथ यच्चाग्निवलद्धये तत्सर्वमर्शसैनित्यं सेव्यमिति। यदत इत्यादि ।
अग्निरक्षामभिधातुम् । अन्यत्रापि यस अग्निरक्षा विशेषण कर्त्तव्या तामाह-वय इत्यादि। वृद्ध परिक्षयः अग्निबले वृद्धे विनाशः। विपु विशेषतः इत्यनेन अवाप्यग्निरक्षणं कार्यमिति दर्शयति ॥ ९८॥
चक्रपाणिः- यद वायोरित्यादिना पूक्तिचिकित्सां सारोद्धारेणाह ॥९९ ॥
For Private and Personal Use Only