________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४श अध्यायः] चिकित्सितस्थानम्।
२६08 सुनिषण्णकचाङ्गेयोः प्रस्थौ द्वौ स्वरसस्य च। सव्वै रेतैर्यथोदिष्टतप्रस्थं विपाचयेत् ॥ एतदर्शस्यतीसारे त्रिदोषे रुधिरनु तौ। प्रवाहणे गुदभ्रंशे पिच्छासु विविधासु च ॥ उत्थाने चातिबहुशः शोफशूले गुदाश्रये। मृत्रग्रहे मूढ़वाते मन्देऽग्नावरुचावपि ॥ प्रयोज्यं विधिवत् सर्पिर्बलवर्णाग्निवर्द्धनम् । विविधेष्वन्नपानेषु केवलं वा निरत्ययम् ॥ ७॥
सुनिषण्णकचाङ्गेरीघृतम् ।
भवन्ति चात्र। व्यत्यासो * मधुराम्लानां शीतोष्णानाञ्च योजितः।
नित्यमग्निबलापेक्षी जयरर्श कृतान् गदान् ॥ क्षीरकाकोली। स्थिरा शालपर्णी। समङ्गा मञ्जिष्ठा वराहक्रान्ता वा । सुनिषष्णकचाङ्गेयोः प्रत्येकं स्वरसस्य द्वौ प्रस्थौ, तेन पञ्चगुणद्रव्ये घृतपाकोऽयम् । उत्थाने चासिबहुश इति स्तोकं स्तोकं पुरीपं सृष्ट्वा बहुश उत्थाने। सुनिपण्वकचाङ्गेरीघृतम् ॥९७॥
गङ्गाधरः-अत्र प्रतिसंस्कृते प्रमाणमाह। भवन्ति चात्रेत्यादि। व्यत्यास इत्यादि। मधुरनिदानजेसि व्यत्यासो मधुरविपर्ययः। अम्लनिदानजे
तथा विंशत्पलानि तु प्रस्थो विडेयो द्विपलाधिक इत्यपि वचनं परिभाषासिद्धार्थाभिधायक विज्ञेयम् । अत एव दृढबलसंस्कारेऽपि दवद्वैगुण्याभिधानम् । विंशत्पलविशेषणतया द्विपलाधिकानीति निर्देशे प्राप्ते प्रस्थाविशेषणतया पुलिङ्ग कवचननिद्दशो ज्ञेयः ॥ ९७ ॥
चक्रपाणिः-व्यस्यासात् परस्परपरिवर्तनेन मधुराम्लयीः शीतोष्णयोश्च योजना। अशःसु
* व्यत्यासात् इति चक्रः।
For Private and Personal Use Only