________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२६०८
चरक संहिता |
I
ऐकध्यं साधयेत् सर्व्वं तत् सर्पिः परमौषधम् अर्शोऽतिसार ग्रहणी-पाण्डुरोगे ज्वरेऽरुचौ ॥ मूत्रकृच्छ्रे गुदभ्रंशे वस्त्याध्माने प्रवाह । पिच्छाखावेऽर्शसां शूले योज्यमेतत् त्रिदोषनुत् ॥ ६६॥ वाकपुष्पी बला दार्वी पृश्निपर्णी त्रिकण्टकः । म्यग्रोधोडुम्बराश्वत्थ- शुङ्गाश्च द्विपलोन्मिताः ॥ कषाय एषां पेव्यास्तु जीवन्ती कटुरोहिणी । पिप्पली पिप्पलीमूलं मरिचं देवदारु च ॥ कलिङ्गाः शाल्मलं पुष्पं वीरा चन्दनमञ्जनम् । कट्फलं चित्रको मुस्तं प्रियङ्गतिविषे स्थिरा ॥ पद्मोत्पलानां किञ्जल्कः समङ्गा सनिदिग्धिका । विल्वं मोचरसः पाठा भागाः कर्षसमाः पृथक् ॥ चतुःप्रस्थभृतप्रस्थं कषायमवतारयेत् ।
[ अशश्चिकित्सितम्
त्रिंशत् पलानि तु प्रस्थो विज्ञ यो द्विपलाधिकः ॥ कान्ताः सप्तदश कल्काः पादिकाः । चतुर्गुणे चाङ्गेरीस्वर से तत् सर्व्वम् ऐकध्यं घृतं साधयेत् । ह्रीवेरादिघृतम् ॥ ९६ ॥
गङ्गाधरः - अवाक्पुष्पीत्यादि । अवाक्पुष्पी महुरीति लोके । न्यग्रोधाatri शुताः । अष्टौ प्रत्येकं 'पलोन्मिताः, एषां कषाय एव यथा काय्यैः तदिहैव वक्ष्यते चतुःप्रस्थमृतमस्थं कषायमवतारयेदिति । चतुःप्रस्थे षोड़शशरावे जले अवाक्पुष्प्यादीनां षोड़शपलभृतप्रस्थं चतुःशरावमितः कषाय एव काय्र्यः । पेध्यास्तु जीवन्त्यादयः पाठान्ताः प्रत्येकं कर्षमिताः । वीरा चक्रपाणिः -- यवाग्रजः क्षारो यवक्षारः । चाङ्गेरीस्वरसोऽल चतुर्गुणो ग्राह्यः द्रवान्तरासान्निध्यात् ॥ ९६ ॥
1
For Private and Personal Use Only
चक्रपाणिः -- भवाक्पुष्पी अधःपुष्पी । अत्र काथ्यद्रव्यं षोड्शपलम् । यद्यपि अखोत्सर्गतः चतुःप्रस्थं जलमेव ज्ञेयम्, तथा शेष चतुर्भागः प्रस्थ एष भवति, तथापि चतुर्गुणजलदानस्य चतुर्थभागशेषतया स्थाध्यकषायस्य च उत्सर्गविधौ परिभाषासूचनार्थम् इदं वरकवचनम् -