________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
चरक-संहिता। [अर्शश्चिकित्सितम् गृञ्जनकसुरासिद्धां दद्याद यमकेन भर्जितां पेयाम् । रक्तातिसारशूलप्रवाहिकाशोफनिग्रहणीम् ॥१॥ काश्मर्यामलकानां सकर्बुदारफलाम्लानाम् । गृञ्जनकशाल्मलीनां दुग्धिकानां चुक्रिकाणाश्च ॥ न्यग्रोधशुङ्गाकानां खड़ांस्तथा कोविदारपुष्पाणाम् । दध्नः सरेण सिद्धान् दद्याद रक्त प्रवृत्तेऽति ॥२॥ सिद्धं पलागडुशाकं तकणोपोदिकां सबदराम्लाम् । रुधिरन तो प्रदद्यान्मसूरयूषञ्च तक्राम्लम् ॥ पयसा शृतेन यूषैः सतीनमुद्गाढकीमसूराणाम् । भोजनमद्यादम्लैः शालिश्यामाककोद्रवजम् ॥
पक्त्वा सनबनीता पेयां साधितां वृक्षाम्लदाडिमाभ्यामम्लामथ्वाम्लीकाम्लाम् अथवा सकोलाम्लां रक्तातिसारादिनिग्रहणी दद्यात् । अथवा गृञ्जनकसुराभ्यां सिंद्धा प्रेयां यमकेन भजितां दद्यात् ॥ ८१॥
माधरः-काश्मयेत्यादि । काश्मय्यं गम्भारीफलम्। आमलकीफलम् । कार्बुदारो रक्तकाञ्चनपुष्पम् । फलाम्लं तिन्तिडिकादि। ताभ्यां सहितानां कौम्म-मलकानां खड़ो मुद्गादियषः एकः। गृञ्जनकशाम्ललीवेष्टकानां सादिषो द्वितीयः खड़ः । दुग्धिकानां खड़ो मुद्दादियूषस्तृतीयः । चुक्रिकाणां सुद्धादियूपश्चतुर्थः खः । न्यग्रोधशुङ्गकानां मुद्गादियूषः पञ्चमः खड़ः । कोविकारस्य रक्तकाञ्चनस्य कल्कैदैनः सरेण युक्तो मुद्दादियषः षष्ठः खड़ा। इत्येतान सिद्धान् खडानतिमत्तेऽशोभ्यो रक्ते दद्यात् ॥ ८२॥
गङ्गाधर-सिद्धमित्यादि। पलाण्डुशाकं तक्रेण सिद्धम्। सबदराम्लामुमोदिकाम्। तक्राम्लं मसूरयूषश्चार्शसां रुधिरस्र तो प्रदद्यात् । पयसेत्यादि। अर्जुश्रुतेन पयसा भोजनमन्नं शालिश्यामाककोद्रवजमद्यात्। सतीनादीनां
पक्रपाणि:-गृञ्जनकेत्यादिना योगान्तरम् । गृञ्जनकः पलाण्डुभेदः ॥ ८ ॥ चक्रपाणिः-कच दारः काञ्चनभेदः ॥ ८२ ॥
For Private and Personal Use Only