________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४श अध्यायः
चिकित्सितस्थानम्। २६०३ शशहरिणलावमांसः कपिञ्जलैणेयकैः सुसिद्धेश्च। भोजनमद्यान्मधुरैरम्लैरीषत् समरिचैर्वा ॥ दक्षशिखितित्तिरिरसैदिककुदनोपाकजैश्च मधुराम्लैः। अद्याद रसैरतिवहेष्वर्शःखनिलोल्वणशरीरः॥ रसखड़शाकयवागूसंयुक्तः केवलोऽथवा जयति। रक्तमतिवर्तमानं वातञ्च पलाण्डुरुपयुक्तः॥ छागान्तगधि तरुणं सरुधिरमुपसाधितं बहुपलाण्डु । व्यत्यासान्मधुराम्लं विटशोणितसंक्षये देयम् ॥८३ ॥ नवनीततिलाभ्यासात् केशरनवनीतशर्कराभ्यासात् । दधिसरमथिताभ्यासाद गुदजाः शाम्यन्ति रक्तवहाः ॥८४
राषैश्च तदन्नमद्यात् । शशेत्यादि। सुसिद्धैः शशादिमांसः कपिञ्जलमांसः ऐणेयमांसैश्च शाल्यादिजः भोजनमद्यात्। समरिचैरीषदम्लैः मधुरवा शाल्यादिजं भोजनमद्यात्। दक्षेत्यादि। दक्षः कुक्कटः। द्विककुद उष्टः। नोपाकः क्षुद्रशृगालः। दक्षादीनां मांसरसर्दाडिमादिपधुराम्लैः शाल्या दिजं भोजनमनिलोल्वणशरीरोऽर्शसोऽतिवहेषु अतिरक्तस्राविष्वःसु अद्यात् । रसखड़ेत्यादि। पलाण्डुर्नाम कन्दविशेषः। शशादिमांसरसकाश्मर्यादि. खड़पलाण्डुशाकादिशाकलाजपेयादियवागूसंयुक्तः केवलो वाप्युपयुक्तोऽझेभ्योऽतिवर्तमानं रक्तं वातञ्च जयति । छागान्तगधीत्यादि। छागस्यान्तराधि शिरःपादचतुष्कं विना मध्यदेहमानं सरुधिरं तच्छागस्य रुधिरसहित तरुणं बहवः पलाण्डवो यत्र तत् उपसाधितं पक्वं विट्शोणितसंक्षये मधुराम्लं व्यत्यासाद देयम् विसंक्षये विव्यत्यासं मधुरं कृखा देयं, शोणितसंक्षये शोणितवर्द्धनमम्लं कृत्वा देयमिति ।। ८३॥
गङ्गाधरः-नवनीतेत्यादि। त्रयो योगाः। केशरं पद्मकेशरं नागकेशरं वा। मथितं निर्जलं तक्रम् ॥ ८४॥
चक्रपाणि:-भोजनमित्यादि भोजनमद्यात् इति योज्यम् । द्विककुद उष्ट्रः। अन्तराधि शरीरमध्यं तच्च तरुणच्छागस्यैवाद्यात्। मधुराम्लं प्रथम मधुरं ततः किमिदम् ॥ ८३ ॥ ८४ ॥ .
For Private and Personal Use Only