________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४श अध्यायः चिकित्सितस्थानम्। २६०१
पाठां वत्सकवीज रसाञ्जनं नागरं यमान्यश्च। विल्वमिति चासैश्चूर्णितानि पेयानि सशूलेषु । दार्वी किराततिक्तं मुस्तं दुःस्पर्शकश्च रुधिरघ्नम् ॥ ७ ॥ रक्तेऽतिवर्तमाने शुले च घृतं विधातव्यम् । कुटजफलकल्कैः ॐ केशरनीलोत्पललोध्रधातकीकल्कैः। सिद्धं घृतं विधेयं शूले रक्तार्शसां भिषजा ॥ सर्पिः सदाडिमरसं सयावशूकं शृतं जयत्याशु । रक्त सशूलमथवा निदिग्धिकादुग्धिकासिद्धम् ॥८॥ लाजापेया पीता चुक्रीकाकेशरोहालैः सिद्धा। . हन्यश्वस्तस्रावं तथा बलापृश्निपीभ्याम् ॥ ... होवेरविल्वनागरनिय्यू हसाधितां सनवनीताम् ।
वृनाम्लदाडिमाम्लामम्लीकाम्लां सकोलाम्लाम् ॥ रक्तमित्याशीः। पाठामित्यादि। पाठादीनि षट् विल्वान्तानि चूर्णितानि सशुलषु साविष्वर्शसैलेन पेयानि। दार्चीत्यादि। दाादिचतुष्क चूणितं रुधिरघ्नं पेयम्। अतिवर्तमाने रक्त शूले चैभितं विधातव्यम् । अथवा वक्ष्यमाणं घृतं विधातव्यम् ॥ ७९ ॥
गङ्गाधरः-कुटजेत्यादि। कुटजफलादिभिः षड्भिः कल्कैः (कुटजफलकल्करेकम्, द्वितीयं केशरादिभिः कल्करिति कचित् पाठः ) चतुगु णे जले सिद्धं घृतं रक्तासां शृले भिषजा विधेयम्। सर्पिरित्यादि। सदाडिमरसं दाडिमफलखककाथचतुर्गुणं सयावशूक पादिकयवक्षारकल्क शृतं सर्पिराशु सशुलं रक्तमर्शसां जयति ॥८॥
गङ्गाधरः-लाजेत्यादि। चुक्रीकादिभिरर्द्धभृततोये सिद्धा लाजानां पेया पीता असतावमाशु हन्ति । तथा बलापृश्निपर्णीभ्यां सिद्धा लाजा पेया पीताऽत्रस्रावमाशु हन्ति । हीवेरेत्यादि। हीवेरादीनां त्रयाणां निय्य हे शालितण्डुलान् चक्रपाणिः-कृठजफलवरकशब्देन च त्वगुच्यते। सदाडिमरसमित्यत्र सिद्धं सर्पिः ॥ ८ ॥ • फुटजफलकल्कः इत्यस कुटजफलदल्क... करुकः इति चक्रेण पठ्यते ।
३६४
For Private and Personal Use Only