________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१४वा अध्यायः ]
चिकित्सितस्थानम् ।
रहहं
कुटजत्वनिर्यूहः सनागरः स्निग्धो रक्तसंग्रहणः । त्वग् दाड़िमस्य तद्वत् सनागरश्चन्दनरसश्च ॥ चन्दनकिराततिक्तधन्वयवासाः सनागराः क्वथिताः । रक्तार्शसां प्रशमना दाव्र्वत्वगुशीर निम्बाश्च ॥ सातिविषा कुटजत्वक्फलञ्च रसाअनं मधुयुतानि । रक्तापहानि दद्यात् पिपासवे तण्डुलजलेन ॥ ७७ ॥ कुटजत्वचो विपाचयं पलशतमात्र महेन्द्रसलिलेन । यावत् स्यादर्द्धरसं तद् द्रव्यं पूतो रसस्ततो ग्राह्यः ॥ मोचरसः ससमङ्गः फलिनी च पलांशिकैस्त्रिभिस्तैश्च । वत्सकवीजं तुल्यं चूर्णीकृतमत्र दातव्यम्
गङ्गाधरः - केन स्तम्भनीयमित्यत आह - कुटजत्वगित्यादि । सनागर' स्निग्धो नागरचूर्णप्रक्षेपयुक्तः कुटजत्वङ निर्यूहः स्निग्धः रक्तसंग्रहणः । पित्तं सस्नेहं तदुल्बणवाद् रक्तश्च स्निग्धं तत् संग्रहणः कुटजखनिय्यू हो रौक्ष्यात् । दाड़िमस्य त्वक्कुतो नियूंहो नागरचणंयुक्तस्तद्वत् रक्तसंग्रहणः । चन्दनरस सनागरस्तद्वत्। चन्दनं रक्तचन्दनम् । चन्दनेत्यादि । चन्दनादयअत्वारः कथिताः । दानवगुशीर निम्त्रास्त्रयः कथिताः । सातिविषेत्यादि । अतिविषादिरसाञ्जनान्तानि चूर्णीकृत्य मधुयुतानि रक्तापहानि लेहविधया दद्यात् । पिपासवे तु तण्डुलजलेन मधुयुक्तान्येव दद्यात् ॥ ७७ ॥
गङ्गाधरः- कुटजेत्यादि । कुटजस्य वचः पलशतमाईमशुष्कं महेन्द्रसलिलेन द्रोणमितेन विपाच्यं तद् द्रव्यं यावदर्द्धरसमद्रोणावशिष्टं स्यात् । ततः पूतोऽर्द्ध द्रोणरसो ग्राह्यः । अत्राद्रोणे कुटजल से मोचरसादिभिस्त्रिभि प्रत्येकं पलांशिकैश्चूर्णितैस्तुल्यं त्रिपलपरिमितं चूर्णीकृतं वत्सकवीजं दातव्यम् ।
चक्रपाणिः - सनागरः ईषन्नागरः । स्निग्धस्य रक्तस्य संग्रहणः । तद्वदिति पूर्वयोगफल विधिञ्च दर्शयति ॥ ७७ ॥
अष्टभागावशे
चक्रपाणिः – कुटजत्वगित्यादौ पलशतं तुलाः जलद्रोणेन साध्यम् । कषायो ग्राह्यः । तन्त्रान्तरेऽप्युक्तम्- द्रोणेऽम्भसः पलशतं कुटजत्वचो ऽष्टमागमिति । मेघसलिल म्
For Private and Personal Use Only